________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 427 प्रशस्तपादभाष्यम् [162] अनध्यवसायोऽपि प्रत्यक्षानुमानविषय एव सजायते / तत्र प्रत्यक्षविषये तावत् प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा व्यासङ्गा'दर्थित्वाद्वा किमित्यालोचनमात्रमनध्यवसायः / यथा वाहीकस्य पनसादिष्वनध्यवसायो भवति / तत्र सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्व 'रूपवत्त्वादिशाखाद्यपेक्षोऽध्यवसाय एव। पनसत्वमपि पनसेष्वनवृत्तमाम्रादिभ्यो व्यावृत्तं प्रत्यक्षमेव, केवलं तूपदेशाभावाद्विशेषसंज्ञाप्रतिपत्तिर्न भवति / न्यायकन्दली (162] अनध्यवसायोऽपि प्रत्यक्षानुमानविषये सजायते / प्रत्यक्षानुमानविषये विपर्ययस्तावद्भवति, अनध्यवसायोऽपि भवतीत्यपिशब्दार्थः / प्रत्यक्षविषये तावदनुमानविषये क्रमेणानध्यवसायो वक्तव्य इत्यभिप्रायेण क्रमवाचिनं तावच्छन्दमाह-प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा 'व्यासङ्गादथित्वाद्वा किमित्यालोचनमात्रमनध्यवसायः / प्रसिद्धाश्च ते अर्याश्च प्रसिद्धार्थाः, येऽर्थाः पूर्व ज्ञातास्तेषु व्यासङ्गादन्यत्रासक्तचित्तत्वाद्विशेषप्रतीत्यनथित्वाद्वा किमित्यालोचनमात्रम् / 'गतेऽपि प्रसिद्ध राजनि कोप्यनेन पथा गत इति ज्ञानमात्रमनवधारितविशेषमनध्यवसायः / अप्रसिद्धष्वपरिज्ञानादेवानध्यवसायो यथा [टि०] [162] . ( // अथ अविद्याभेदनिरूपणे अनध्यवसायनिरूपणम् // ) उभयविशेषानुस्मरणाद् इति - एतेन उपलब्धानुपलब्धविशेषविषयं ज्ञानमनध्यवसायः उपलब्धविशेषविषयं तु संशय इति / तथाऽस्पृष्टानेककोटिकमनवधारणात्मकं ज्ञानमनध्यवसाय: अनवस्थितानेककोटिकं ज्ञानं संशय इति लक्षणे सूचिते। ... ( / / इति अनध्यवसायनिरूपणम् // ) [पं०] [162] क्रमेगेति (के 182.14) प्रत्यक्ष भणनानन्तरं निर्विकल्पकप्रत्यक्षमेवेत्यतः पुरस्तहि अनध्यवसायत्वं कुत इत्याह केवलमित्यादि (कं. 182.23) / [कु०] [162] अनवधारितविशेषमिति (कं. 182.18) अनिश्चयात्मकज्ञानविषयीकृतोऽत्र विग्रहः / तदनेन लक्षणमुक्तम। अत्र चानवधारितपदेन निश्चयाद व्यावत्तिः। शेषस्यैकत्वबिवक्षया संशयादिति / व्यासजो नाविना च प्रसिद्धेष्वनध्यवसायकारणमुक्तमप्रसिद्धेषु किमित्यत आह - अप्रसिद्धेष्विति (कं. 182.19) / 'वाल्हिक [वाहीक] इत्यस्याप्रसिद्धपनसावलक्षणतां दर्शयति "उदग्देशेति (कं. 182.20) / विशेषसज्ञाप्रतिपत्तिनं भवतीति (कं. 183.1) विशेषसज्ञानिश्चयो न भवतीत्यर्थः / एतदेवाह-पनसशब्देति (कं. 183.1) / 1 ताडपत्रीय कन्दल्यनुसारी पाठोऽयम्-पा. 1.7 पु. इत्यत्रापि। 2 तत्र हि-दे। 3 रूपादि-दे। 4 ऽध्यवसायो भवति-कं. 1, कं. 2 कि। 5 व्यासङ्गादथित्वाद्-कं. 1, कं. 2 / 6 त्यथित्वाद् - कं. 1, कं. 2 / 7 गते -5, 2 / 8 प्रत्यक्षविषयभणना० -ब। 9 वाहीक-कं। 10 दक्ष-के।