________________ 426 न्यायकन्दलीसंवलितप्रशस्तपादमाष्यम् न्यायकन्दली दोषाणां शक्तिनियमादेव पराहतम् / न च ज्ञानस्यार्थव्यभिचारे सर्वत्रानाश्वासः, यत्नेनान्विष्यमाणानां 'बाधककारणदोषाणामनुपलम्भादभावसिद्धौ तद्वयाप्तस्य विपर्ययस्याभावावगमादेव विश्वासोपपत्तेः।। विपर्ययानभ्युपगमे च द्विचन्द्रज्ञानस्य का गतिः ? दोषव्यतिभिन्नानां चरश्भ्यवयवानां च पृथङ निर्गत्य पतिताना चन्द्रमसि जनितस्य ज्ञानद्वयस्यायं द्वित्वावभास इति चेन्न, ज्ञानधर्मस्य चक्षुषा ग्रहणाभावात् / ज्ञानधर्मो ज्ञेयगतत्वेन गृह्यमाणो ज्ञेयग्राहकेणवेन्द्रियेण गृह्यत इत्यभ्युपगमे तु भ्रान्तिः समथिता स्यात्, अन्यधर्मस्यान्यत्र ग्रहणात् / इत्यलमतिप्रकोपितैः श्रोत्रियद्विजन्मभिरित्युपरम्यते।। ये तु शुक्तिकायां रजतप्रतीतावलौकिकं रजतं वस्तुभूतमेव प्रतीयत इति वदन्तो विपर्ययाभावं समर्थयन्ति, तेषामस्मिज्ञाने प्रवृत्तिर्न स्यादलौकिकस्यार्थक्रियाहेतुत्वानवगमात् / [पं०] बाधककारणदोषाः, व्याप्यस्तु विपर्ययो व्यापकेषु बाधककारणदोषेषु निवर्तमानेषु व्याप्यो विपर्ययोऽपि निवृत्तो, विपर्ययनिवृत्तौ च ज्ञाने विश्वासः सिद्धयति / शुक्तौ रजतज्ञाने तु बाधककारणदोषाश्च सन्तीति वाक्यार्थः / ... दोषव्यतिभिन्नानामिति (कं. 181.19) दोषमिश्रितानाम् / जनितस्येति (कं. 181.20) चक्षुरश्म्यबय- . वैरेवोत्पादितस्य / ज्ञानधर्मस्येति (कं. 181.21) द्वित्वावभासस्य / ज्ञेयगतत्वेनेति (कं. 181.22) चन्द्रगतत्वेन। घ्रान्तिः समथिता स्यादिति (कं. 181.23) यथा पीतप्रतिभासो ज्ञानस्य धर्मो ज्ञेये शके गृह्यमाणे भ्रान्ति'रूपः / अन्यधर्मस्येति (कं. 181.23) ज्ञानधर्मस्य / अन्यत्रेति (कं. 181.23) ज्ञेये चन्द्रे / अलमित्या (कं. 181.23) धुपहासवाक्यम् / श्रोत्रियद्विजन्मभिरिति (कं. 185.23) भाट्टैः / श्रोत्रिय द्विजन्मानो हि शापानुप्रहसमर्था भवन्तीति न प्रकोपनीया इत्युपहास:।। ये विति (कं. 181.24) जरवेदान्तिनः / [कु०] विपर्ययत्वादिति (कं. 181.14) तदवाज्ये तद्वाच्यत्वज्ञानमपि विपर्यय इत्यर्थः / वातादोति (कं. 181.15) औत्सर्गिककार्यप्रतिबन्धने कार्यान्तरजनकत्वेन दोषाणां न गुणत्वं, गुणानामौत्सर्गिककार्यातिशयकारणत्वादिति भावः / यत्नेनेति (कं. 181.17) ब्वापकनिवृत्त्या व्याप्यनिवृत्तिरित्यर्थः / विपर्ययानभ्युपगम इति (कं. 181.19) नहीदं रजतमितिवत्तादात्म्यारोप: येन भेदाग्रहोऽतिवाहक: स्यादित्यभिप्रायः / अनिर्वचनीयख्यातिवादिन [मु]त्थाप्य दूषयति ये विति (कं. 181.24) अलौकिकस्या'यक्रियायोगादिति (कं. 181.26) इहालौकिकं नाम विचारासहमुच्यते, तस्य तथैव प्रतीतो प्रवृत्त्यनुपपत्तिः / लौकिकत्वेन परिस्फुरणे विपरीतस्यात्यापत्तिः। एतेनासत्ख्याति:-स्वाकारबाह्यज्योतिमपि (तीरूपि) निरस्ते / असतः स्वाकारस्थ चाऽसत्तया स्वाकारतया च परिस्फुरणे प्रवृत्त्यनुपपत्तेः / सत्तया बाह्यतया परिस्फुरणेऽन्यथाख्यात्यापत्तेरिति / / [इति विपर्ययः] 1 बाधकारण-कं. 1, कं. 2 / 2 पतता-जे.१। 3 रूपस्य-ब। 4 °स्यार्थक्रियाहेतृत्वानवगमात-क।