________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 425 न्यायकन्दली भेदाग्रहणप्रसञ्जितस्य शुक्तिकायां रजतव्यवहारस्यायं प्रतिषेध इति चेन्न, अभेदाग्रहणादतद्वयवहारप्रवृत्तेरपि सम्भवात् / अस्ति च शुक्तिकादेशे रजतार्थिनः प्रवृत्तिः, अस्ति च सामानाधिकरण्यप्रत्ययो रजतमेतदिति, अस्ति च बाधकप्रत्यय इदन्ताधिकरणस्य रजतात्मता'निषेधपरः। तेनावगच्छामः 'शुक्तिसंयुक्तेनेन्द्रियेण दोषसहकारिणा रजतसंस्कारसचिवेन सादृश्यमनुरुन्धता शुक्तिकाविषयो रजताध्यवसायः कृतः। ____ यच्चेदमुक्तं शुक्तिकालम्बनत्वमनुभवविरुद्धमिति, तवसारम् / इदन्तया नियतदेशाधिकरणस्य 'चाकचिक्यविशिष्टस्य शुक्तिकाशकलस्यापि प्रतिभासमात् / हानादिव्यवहारयोग्यता चालम्बनार्थः, स चाव सम्भवति / योऽपि भेदाग्रहाच्छुक्तौ रजतव्यवहारप्रवृत्तिमिच्छति, तेनापि विपर्ययोऽङ्गीकृतः, अस्मिस्तदिति व्यवहारप्रवृत्तेरेव विपर्ययत्वात् / यच्च शक्ति'व्याघातमात्रहेतुत्वं दोषाणा'मिति, तदपि न किञ्चित्, वातादिदोषदुष्टानां धातूनां रोगान्तरजननोपलम्भात् / सर्वस्य सर्ववित्वं च [पं०] रजतव्यवहारः प्रसज्यते एवमभेदाग्रहणेनारजतव्यवहारप्रवृत्तिरपि सम्भवति / रजत व्यवहारोऽपि हि भेदाग्रहणेन प्रसञ्जितः / तद्विपरीतेऽभेदाग्रहणे अरजतव्यवहारः स्यात् इति भावः / इबन्ताधिकरणस्येति (कं. 181.7) शुक्तिरूपस्य / ... .'सा चात्रवेति (क. 181.12) भत्रैव शक्तिशकले / ननु ज्ञानं रजतविषयं जातं तन्चार्थे व्यभिचरितम् अर्थस्य शुक्तित्वात् / तस्मादत्र ज्ञानस्यार्थव्यभिचारित्वे दृष्टे सर्वेष्वपि ज्ञानेष्वविश्वास एवेति पराभिप्रायमाशचाह न च ज्ञानस्येत्यादि (कं. 181.16) बाधककारणदोषाणामित्यादि (कं. 181.17) बाधकानि यानि यानि प्रमाणानि तेषां कारण[दोषाणां च इन्द्रियगततिमिरादीनामनुपलम्भादेव यत्राभावः सिद्धः तत्र / तद्वपाप्तस्येति (कं. 181.17) दोषव्याप्तस्य। व्याप्यस्य विषयो यस्याऽभावेऽवगत एव व्यापकं हि निवर्तमानं व्याप्यमादाय निवर्तते म्यापका [कु०] अप्रसक्तत्वादित्यभिप्रायः / न, अभेदाग्रहणादिति (कं. 181.5) यथा भेदाग्रहणादिदं रजतमित्यस्य व्यवहारस्य .प्रसक्तिः, एवमभेदस्याप्यग्रहणान्नेदं रजतमिति व्यवहारोऽयं सिद्ध एव / किं प्रमाणान्तरेण बाधकेनेत्यर्थः / ' तदेवमेभिस्तरेतानि सूचिताति। विमतं शुक्तिकाशक्तं रजतज्ञानविषयम्, 'अव्यवधानेन रजतार्थिप्रवृत्तिविषयत्वात्, सम्प्रतिपन्नरजतवदिति रजत एव समामाधिकरणपदान्तरवाच्यत्वात् सम्यग्रजतं नेदं रजतमिति बाधकप्रत्ययविषयत्वाद्यद्वाध्यज्ञानस्य विषयः नासौ बाधकज्ञानस्य, यथा घट इति व्यतिरेकी। एतेषां स्वरूपासिद्धि परिहरति अस्ति चेति (कं. 181.7) / यच्चेदमिति (कं. 181.10) अनेन हीनं प्रत्यनुमानं विवक्षितम् / रजतज्ञानं न शुक्तिकालम्बनं रजतज्ञानात् " सम्प्रतिपन्नरजतज्ञानवदिति / अस्य कालात्ययापदिष्टत्वमाह - इदन्तयेति (कं. 181.11) / ननुभयोरपि प्रतिभासमानत्वाविशेषे शुक्तिकाशकलमेवालम्बनमिति कुतो विनिगमनेत्यत आह हानादीति (कं. 181.12) / व्यवहारप्रवृत्तेरेव 1 निषेधकरूप:- जे. 3 / 2 शुक्तिसम्प्रयुक्तेन - जे. 1 / 3 चाकचाक्य - जे. 1; चाकचक्य - जे. 2; चाकचक्य 3 / 4 व्याघातहेतुत्वं-कं. 1, कं. 2 / 5 मपि-जे.१। 6 स-कं। 7 अन्ययं-MS I 54