________________ 424 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तस्मिज्ञाने रजतार्थी पूर्वानुभूते एव रजते 'प्रवर्तेत न शुक्तिकायाम्, स्मृतेरनुभवदेशे प्रवर्तकत्वात् / अथ मन्यसे-इन्द्रियेण 'रजतस्य साधारणं रूपं शुक्तिकायां गृहीतम्, न शुक्तिकात्वं विशेषः, रजतस्मरणेन च तदित्युल्लेख'शून्यगृहीतिरूपतामात्रं बिभ्रताऽनिर्धारितदिग्देशं रजतमात्रमुपस्थापितम्, तत्रानयोगुह्यमाणस्मर्यमाणयोर्ग्रहणस्मरणयोश्च सादृश्याद्विशेषाग्रहणाच्च विवेकमनवधारयन् शुक्तिकादेशे प्रवर्तते, सामानाधिकरण्यं शुक्तिकारजतयोरध्यवस्यति रजतमेतदिति / तदप्ययुक्तम्, अविवेकस्याप्यग्रहणात् / रजताभेदग्रहो हि रजतार्थिनः शक्तिकायां प्रवृत्तिकारणं न सादृश्यम्, भेदग्रहणं च ततो निवृत्तिकारणम्, तदुभयोरभावान्न प्रवर्तते न निवर्तत इति स्यात्, न तु नियमेन प्रवर्तते, विशेषाभावात् / एवं सामानाधिकरण्यमपि न स्यादभेदाग्रहणस्यापि वैयधि- . करण्यहेतोः सम्भवात् / तथा च प्रवृत्त्युत्तरकालीनो नेदं रजतमिति बाधकप्रत्ययोऽपि न घटते, शुक्तिकारजतयोर्भेदो न गृहोतो न तु तादात्म्यमध्यवसितं येनेदं प्रतिषिध्यते, [पं०] (कं. 180.22) गृह्यमाणस्य चाकचिक्यादेः, साधारणरूपस्य स्मर्यमाणस्य च रजतस्य सादृश्यात् / सादृश्यं चेदं गृह्यमाणेऽपि तदित्युल्लेखो न तवापि स्मर्यमाणेऽपि नास्ति तदित्यंशस्य दोषैर्मुषितत्वात् / विशेषाग्रहणाच्चेति (कं. 180.22) शुक्तिकालक्षणविशेषाग्रहणाच्च / अविवेकस्याप्यग्रहणादिति (कं. 180.24) अविवेके हि गृहीते संविवयं न घटते / भवन्मते तु अविवेकग्रहणमपि न सिद्धयतीत्यर्थः / अविवेकस्याप्यग्रहणादित्यस्मात्पुर: 'तथा च सति' इत्यध्याहर्यम् तत इत्युक्तेः / इति स्यादिति (कं. 180.26) इति प्राप्नोति / न तु नियमेन प्रवर्तते इति (कं. 180.26) अत्र स्यादिति सम्बध्यते। ततश्च प्रवर्तते वेति न स्यादित्यर्थः / अभेदाग्रहस्येति (कं. 1811). भेदग्रहणस्य / बाधकप्रत्ययोऽपि न घटते (कं. 181.3) इत्यस्मात्पुरा यत इत्यध्याहार्यम् / 'भेदो न गृहीत इति (कं. 181.3) काक्वा व्याख्येयम् / अभेदाग्रहणादतद्वयवहारप्रवृत्तेरपि सम्मवादिति (कं. 181.5) यथा भंदाग्रहणेन शुक्ती [6] माधारणं रूपं शुक्तिकाया इदमिति धर्मिमात्रमित्यर्थः / सादृश्यादिति (कं. 180.22) सम्यग्रजनसामान्यविशेषाम्या गृह्यमाणस्मयमाणयोस्तद् ग्रहणाभ्यां च ग्रहणस्मरणयोः सादृश्यम्, अन्यतरस्यापि तदित्यंगबिरहः अध्यवस्यति अबहरतीत्यर्थः / अविवेकस्यापीति (कं. 180.24) यथा निवृत्तिकारणस्य भेदंग्रहणस्याभावान्न निवृत्तिः, तथा प्रवृत्तिकारणस्याविवेकग्रहणस्याभावान्न (प्रवृत्तिरपि स्यादित्यर्थः / तदेव विभजते 'रजतादभेदेति (कं. 180.24) सम्यम् रजते रजतादर्भदेति सम्यग्रजतार्थिनः प्रवृत्ती रजतादिभेदग्रहकारणमवगतं शुक्तिकायामपि तदेव वक्तव्यम् / इतरथा प्रवृत्तरनियतहेतुकत्वप्रसङ्गादित्यर्थः / न च सम्यग्रजतेऽपि भेदाग्रह एव प्रवृत्तिकारणम्, अतो नानियतहेतुकत्वमिति वाच्यम् / यथाख्यातिना ये रजतपुरोवतिनोरभेदग्रहणमरज [त] वतिनोरभेदग्रहणेन व्याप्तं तथा तवापी नेज्ये ? रजतभेदाग्रहवद रजतभेदाग्रहोऽप्यङ्गीकर्तव्यः; इतरथा विपरीतख्यात्यापत्तेः। तथा च पूर्वोक्तदोषानतिवृत्तिः / न केवल प्रवृत्त्यनुपपत्तिर्दूषण, बाधकानुपपत्तिश्चेत्याह-रजतव्यवहारस्येति (कं. 181.4) / न तादात्म्यं प्रतिषिध्यते, 2 रजतसाधारणं-जे.१, जे. 2 / 3 शुन्येनाऽनिर्धारित-कं. 1, कं. 2 / 4 भेदे-के। 1 प्रवर्तते-जे. 1 / 5 रजताभेद - कं।