________________ टिप्पणपञ्जिकासमोदगमादिटीकात्रयोपेतम् / 423 न्यायकन्दली [161] 'अत्रके वदन्ति-विपर्ययो नास्ति, कारणाभावात् / तदभावश्चेन्द्रियाणां यथार्थज्ञानजननस्वभावत्वात् / दोषवशादयथार्थमपि ज्ञानमिन्द्रियाणि जनयन्तीति चेन्न, 'शक्तिमात्रविधातहेतुत्वाद्दोषाणाम् / 'शुक्तिसंयुक्तमिन्द्रियं दोषोपहतशक्तिकं शुक्तिकात्वं न गृह्णाति, न त्वसन्निहितं रजतं प्रकाशयति दोषाणां संस्कारकत्वप्रसङ्गात् / यदि चाप्रत्यक्षमपि चारध्यक्षयति ? सर्वस्य सर्ववित्त्वं केन 'वार्यते ? इदं रजतमिति ज्ञानस्य शुक्तिकालम्बनमिति च संविद्विरुद्धम् / यस्यां हि संविदि योऽर्थोऽवभासते स तस्या आलम्बनम् / रजतज्ञाने च रजतं प्रतिभाति, न शुक्तिका। न चागृहीतरजतस्य शुक्तो तभ्रमः / तस्मादिदमिति शुक्तिकाविषयोऽनुभयो 'रजतमिति च सदशावबोधप्रबोधितसंस्कारमात्र दोषकृतं तदित्यंशप्रमोषं रजतस्मरणमिति द्वे इमे संवित्ती भिन्नविषये / - अत्रोच्यते-यदि रजतज्ञानं न शुक्तिकाविषयं किं त्वेषा रजतस्मृतिः, तदा [पं०] [161] अत्रके इति (कं. 180.7) एके प्राभाकराः। तवभाव इति (क. 180.8) कारणाभावः / संस्कारकत्वप्रसङ्गादिति (कं. 180.11) पूर्व हि शुक्तिकाग्रहण एव सामर्थ्यमासीद् दोषस्तु रजतग्रहणसामर्थ्य कृतमिति संस्कारकत्वम् / अप्रत्यक्षमपि (कं. 180.12) इति रजतादिकर्मभूतम् / चक्षुरिति (कं. 180.12) कर्तृभूतम् / संविद्विरुखमिति (कं. 180.13) अनुभवविरुद्धम् / दोषकृतं तदित्यंशप्रमोषमिति (कं. 180.16) दोषः कृतस्तदित्यंशस्य स्मरणकार्यस्य प्रमोषो यत्र तत् / तथाहि स्मरणे हि तदित्युल्लेखः स्यात् अत्र च इदमिति / अत इदमिति शुक्तिकालम्बनं रजतमिति तु स्मरणम् / अत्रोच्यते इति (क. 180.17) श्रीधरेण / तस्मिनाने इति (कं. 180.18) नस्मिन् ज्ञाने सतीति व्याख्येयम् / साधारणं रूपमिति (कं. 180.20) चाकचिक्यादि / 'गृहोतिरूपतामात्रमिति. - ग्रहणरूपतामात्रम् / सादृश्यादिति [कु०] [11] ननु यदि विपर्ययो नाम कोऽपि प्रत्यय: स्यात्तदाऽविधायाश्चातुविध्यं भवेत् / स एव कारणतः स्वरूपतश्च नोपपद्यत इति वदतोऽस्यातिवादिन उत्थ,पयति 'अत्रैक इति (कं. 180.7) / इन्द्रियाणां यथार्थति (कं. 180.8) इतरथा तेभ्यो यथार्थज्ञानं कदाचिदपि न जायेतेति भावः / दोषाणां संस्कारकत्वेति (कं. 180.11) तथा गुणत्वेन दोषत्वव्याघात इत्यर्थः / एतेन गुणसहायस्येन्द्रियस्य यथार्थानुभवजनकत्वं न स्वाभाविकमिति परास्तम् / स्वतोऽसत्याशक्तेर्गुणसहाश्र[य]णेऽपि कर्तृमशक्यत्वात् / यद्येवं रजतस्य तत्र तदानीमशक्यत्वात् कथमिदं रजतमिति मानस्योत्पतिरित्यत आह न चागृहीत इति (कं. 180.14) / स्मृतेरनुभवदेश इति (कं. 180.19) स्वकारणसंस्कारहेतुभूतानुभवविषयदेश इत्यर्थः / स्यादेतत्, यदि ज्ञानात्प्रवृत्तिस्तदा तदनुभवप्रदेशे प्रवर्तत, न चैवमास्माकीनोऽभ्युपगम इति परमतमाशङ्कते अयेति (कं. 180.19) / १मत्र केचिद्-कं.१, कं.२। 2 शक्तिव्याघातमात्र-जे. 1; शक्तिविघातमात्र-कं. 1, कं. 2; शक्तिमात्रव्याघातचे. 2 / 3 शुक्तिसम्प्रयुक्तम् -जे.१। 4 वार्यत-कं. 1, कं. 2 / 5 इति हि-कं. 1, के 2 / 6 आभासते -जे.१। 7 रजतमिति-कं. 1, कं.२। 8 प्रतीकमिदं मु. के. इत्यत्र नास्ति / 9 अत्र केचिद्-कं /