________________ 422 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली शाक्यभिन्नकनिम्रन्थकसंसारमोच'कादिशास्त्रेष्विदं श्रेय'इतीदं यदुपदिशन्ति तत्प्रमाणमिति ज्ञानं मिथ्याप्रत्ययः, तेषु कश्चिदेवोपगृहीतेषु सर्वेषां वर्णाश्रमिणां विगानात्प्रमाणविरोधाच्च / तथा शरीरेन्द्रियमनःस्वात्माभिमानो विपर्ययस्तेभ्यो व्यतिरिक्तस्य ज्ञातुः प्रतिपादनात् / कृतकेषु वेदेषु नित्यत्वाभिमानो विपर्ययो मीमांसकानाम् / कारणवैकल्ये धर्माधर्मयोरभावे कार्योत्पत्तिज्ञानं सुखदुःखादिवैचित्र्यज्ञानं 'विपर्ययो लोकायतिकानाम् / प्राणिनो न हिंसितव्या मलपङ्कादिकमशुचि न धारयितव्यमित्यादिकं हितमुपदिशत्सु वेदवृद्धेषु अहितमिति विज्ञानं प्राणिहिंसा परो धर्मो मलपङ्कादिधारणमेव 'श्रेयः इत्यहितमुपदिशत्सु क्षपणकसंसारमोचकादिषु हितमिति 'ज्ञानं तच्छिष्याणां विपर्ययः / / [वि.] शिशपार्थी प्रवर्तते न तु ज्ञानं शिशपाविषयमिति तद् व्यवच्छेदार्थ नियमेनेत्युक्तम् / 'वृक्षसामान्यज्ञानं हि न. निश्चयेन प्रवर्तयति किन्तु सन्देहादिति / तत्रानयोः इति :-गृह्यमाणस्मर्यमाणयोश्चाकचक्यं सादृश्यं ग्रहणस्मरणयोस्तु 'चाकचक्यविशिष्टविषयतासादृश्यम् / 'बाधककारणेति :- बाधकानां कारणदोषाणां चेत्यर्थः / ये तु शुक्तिकायामिति ये जरवेदान्तिनः / / विपर्ययः / / [पं०] मनस्विति (कं. 180.1) शरीरेन्द्रियचित्तेषु / कारणवकल्ये इति (कं. 180.2) व्याख्येयपदं। धर्माधर्मयोरभाव इति (कं. 180.3) व्याख्यानपदम् / कार्योत्पत्तिज्ञानमिति व्याख्येयपदम् / सुखदुःखादिवैचित्र्यज्ञानमिति व्याख्येयपदं प्राणिहिंसापरो धर्म इति (कं. 180.5) संसारमोचकापेक्षम् / मलपादिधारणमेवाभय इति क्षपणकापेक्षम् / [कु०] अत्यन्तेति (कं. 179-20) अयमप्यनुमितिविपर्यय एव। शब्दस्याप्यनुमानान्तर्भावस्य वक्ष्यमाणत्वात् / कथमिदं विपर्यय इत्यत आह -तेष्विति (कं. 179.25) / हितमुपविशत्सु वेदवृद्धेष्विति (कं. 180.5) / लिङ्गे लिङ्गाभासभ्रमकृतो हितेऽहितत्व इत्यर्थः / अहितमुपविशत्स्विति (कं. 180.6) अहितं हितमित्युपदिशस्वित्यर्थः / 1 कादिषु - जे. 3 // 2 इतीदं यदुपदिशति - जे. 1; इति यदुपदिशन्ति - कं. 1, कं. 2 / 3 तच्छिष्याणां विपर्ययो लोकायतिकानाम् - कं. 1, कं. 2 / 4 श्रेयस .. कं. 1, कं. 2 / 5 विज्ञानं - कं. 1, कं. 2 / 6 वृक्षस्य सामान्यं - अ, वृक्षस्य सामान्यज्ञानं - ब, क। ..7 वाचकचक्य -ड। 8 बाधकारणेति म. बाधककारणेति-जे.१,जे.३।