________________ टिप्पणपञ्जिकाकुसुमोगमादिटीकात्रयोपेतम् 421 प्रशस्तपादभाष्यम् [160-161] अनुमानविषयेऽपि बाष्पादिभिधूमाभिमतर्वह्नयनुमानम्, 'ग्रवयविषाणदर्शनाच्च गौरिति / ____ त्रयोदर्शनविपरीतेषु शाक्यादिदर्शनेष्विदं श्रेय इति मिथ्याप्रत्ययः 'विपर्ययः / शरीरेन्द्रियमनःस्वात्माभिमानः, 'कृतकेषु 'नित्यत्वदर्शनम्, कारणवैकल्ये कार्योत्पत्तिज्ञानम्, हितमुपदिशत्स्वहितमिति ज्ञानम्, अहितमुपदिशत्सु हितमिति ज्ञानम् / न्यायकन्दली [160] अनुमानविषयेऽपि बाष्पादिभिर्बाष्पधूलिपताकादिभिधूमाभिमतैर्धूम इति ज्ञातरनग्निके देशेऽग्न्यनुमानम् / तथा गवयविषाणदर्शनाद् गौरिति ज्ञानमनुमानविपर्ययः / - अत्यन्तदुर्दशनाभ्यासाच्च विपर्ययो भवतीत्याह-त्रयीदर्शनविपरीतेष्विति / त्रयाणां वेदानामृग्यजुःसाम्नां समाहारः त्रयी, अथर्ववेदस्तु त्रय्येकदेश एव / दृश्यते स्वर्गापवर्गसाधनभूतोऽर्थोऽनयेति दर्शनम्, त्रय्येव दर्शनं त्रयोदर्शनम्, तद्विपरीसेषु शाक्यादिदर्शनेषु * [टि०] [160] दृश्यते स्वर्गेति-अत्रानयेति तात्पर्य पर्यवसितं दर्शितम्, 'अनेनेति तु कर्तव्यम्, अन्यथा स्त्रीत्वं 'स्यात् / - "अत्रके इति :-एके प्राभाकराः / विवादास्पदं विपर्ययज्ञानं विपर्ययरूपं न भवति, तद्पतायां कारणशून्यत्वाद् यथा स्तम्भों विषाणं न भवति इति [प्रमाणम् / यदि रजतज्ञानम् इति]-एतेन विवादास्पदं ज्ञानं पुरोबतिवस्तुविषयं रजतायिनो नियमेन तत्र प्रवर्तकत्वात् "समीचीन रजतज्ञ नवद् इति प्रमाण- सूचितम् / वृक्षसामान्यज्ञानेनापि दूरस्थः [पं०] [160] धूलिपताकेति (कं. 179.18) धूलिलेखा। शाक्येति बौद्धस्याख्या। "भिन्नाकेति नास्तिकव्याख्या / निर्ग्रन्थेति जैनस्याख्या / संसारमोचकैति (कं 179.23) सुखिनो न हन्तव्या; दुःखिनो जीवा हन्तव्यास्तद्घाते नास्ति पापं प्रत्युत दुःखमोक्षणात्तेषपकारः कृतो भवति ततश्व धर्म इति उपदिशन्ति ते संसारमोचका उच्यन्ते / आदिशब्दावशेषिकदर्शनविपरीतसर्वदर्शनपरिग्रहः / शरीरेन्द्रिय [कु०] [160] तृतीयमुदाहरणं तमो वादे व्युत्पादि बाष्पादिभिरिति (कं. 17918) / हेत्वाभासश्च हेतुत्व प्र[क] मेणानुमितिविपर्यये भवतीत्यर्थः / 1 गवयदर्शनाच्च - कं. 2; गवये विषाणमात्रदर्शनाच्च - पा. द. पु.। 2 विपर्यय इति 'जे' पुस्तके नास्ति / 3 कृतके - कि। 4 नित्यदर्शनम - जे। 5 तात्पर्य दर्शितं-अ, ब; तात्पर्य पर्यवसितं दर्शितं-ड। 6 अनेयेति .. 'कर्तव्यम् - अ, ब / 7 स्यात् अ.ब पुस्तकया स्ति। 8 केचिद् मु. अत्रके - जे. 1, जे. 3 / 9 [ ] "एतच्चिबान्तर्गतः पाठः अ.व पुस्तकयो स्ति। 10 स्तम्भवद् - अ.ब। 11 भिन्नक-कं. 1, कं. 2 / .