________________ न्यायकन्द्रलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् .. असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति, यथा व्यपगत घनपटलमदलजलनिधिसदृशमम्बरमञ्जनचूर्णपुञ्जशामं शार्वरं तम इति / .: न्यायकन्दली : विपर्ययस्योदाहरणान्तरमाह-असत्यपि प्रत्यक्षे प्रत्यक्षाभिमान इत्यादिना गगनावलोकनकुतूहलादूर्ध्वमनुप्रेषिता नयनरश्मयो दूरगमनान्मन्दवेगाः प्रतिमुखैः सूर्यरश्मिभिरतिप्रबलवेगैराहताः प्रतिनिवर्तमानाः 'स्वगोलकस्य गुणं देशान्तरे निरालम्ब नीलिमानमा भासयन्तो जलधरपटलनिर्मुक्तनिस्तरङ्गमहोदधिकल्पमम्बरमिति प्रत्यक्षमिव रूपज्ञानमप्रत्यक्षे नभसि जनयन्ति। स्वगोलकगुणं व्योमाधिकरणत्वेनेन्द्रियमाभासयतीत्यत्र तद्गुणानुविधानेन प्रतीतिनियमः प्रमाणम् / तथाहि-कामलाधिष्ठितेन्द्रियाधिष्ठानो / विद्रुतकलधौतरस'विलिप्तमिवान्तरिक्षमीक्षते / कफाधिकतया धवलगोलको रजतसच्छायं पश्यति / शर्वर्यां भवं शार्वरं तमोऽजनचूर्णपुञ्ज इव श्याममिति केवलज्ञानमत्यन्ततेजोऽभावे सति सर्वत्रारोऽपितरूपमात्रविषयमप्रत्यक्षमपि प्रत्यक्षमिव पश्यति / [पं०] स्वगोलकगुणमिति (कं. 179.13) नीलिमानम् / इन्द्रियमिति (कं. 179.13) चक्षुः कर्तृभूतया नमु नयनगोलकनीलिमैवायं भ्रान्त्याऽयते नाकाशरूपमित्यत्र कि प्रमाणमित्यत्राह अत्र तदगुणान विधानेनेति (कं. 179.13) सस्य नयनगोलकस्य गुणो नीलिमा तस्यानुविधानेन / अनुकरणेन नयनगोलकतुल्यनीलिम्नेत्यर्थः / काम्रलाधिष्ठितेन्द्रियाधिष्ठान (कं. 179.14) इति / कामलाख्यरोगाक्रान्तनयनगोलकः। आरोपितरूपमात्रविषयमिति (कं. 179.17) इह वैशेषिकस्येदं मतम् न तमो नाम किमपि द्रव्यभतं वस्त्वस्ति, केवल निशि अत्यन्ततेजोऽभावे सति अन्यत्र .. कोकिलकाकोलकव्यलकालिन्द्यादिषु दृष्टं नीलं रूपमात्रम् अन्धकारशतया आरोपयति व्यवहरति च तम इदम् इति ततश्चायमत्रसमासः। आरोपितं कोकिलादिभ्य उपचरितं यद् नीलाख्यं तदेव विषयो यस्य तदारोपितमात्रविषयम् / अदृश्यद्रव्यपदार्थस्यादौ प्रागपि विवृतं नवैवद्रव्याणीति सूत्रे इति न भूयः प्रपञ्च्यते / [कु०] विपर्ययस्योदाहरणान्तरमिति (कं. 179.8) प्रत्यक्षानुमानव्यतिरेकेणापि विपर्यायस्य विषयत्वसम्भावना निवारयितुमिति शेषः / इहैवं हि सम्भाव्यते निर्मघे व्योम्नि नीलारोपस्तावत् सर्वजनप्रसिद्धो नापह्नवमर्हति / अयं च न प्रत्यक्षविषयः, नीरूपत्वादाकाशस्याप्रत्यक्षत्वात् / आलोकसहायेन चक्षुषा अप्रत्यक्षे मिणि नीलारोपानुपपत्तेरिति / सेयं सम्भावनाऽनेनोदाहरणान्तरेण निवर्त्यते, आरोपितप्रत्यक्षविषयत्वोपपादनात् / तथा ह्यालोकमण्डले गतिमदप्रतिबन्धादिना सादृश्येनारोपिते अत एव प्रत्यक्षीभूते गगने नीलिमारो[पो] दृष्टो ह्यतीन्द्रियस्याप्यन्द्रियकतया समारोपो येन केनचिन्सादृश्येन यथा देवदत्तोऽयं विद्वानिति / 1 स्वगोलकस्य देशान्तरे- जे. 1, जे. 2, जे. 3 / 4 ऽञ्जनपुञ्ज-कं. 1, कं. 2 / 2 अवभासयन्नः - जे. 3 / 3 विलुप्त - कं. 1, कं. 2 /