________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् न्यायकन्दली सर्वत्रावभासः, सादृश्यसंस्कारयोः प्रतिनियमहेतुत्वात् / अत एव चेयं गुरुभिरिन्द्रियजा भ्रान्तिरुच्यते / एवं हीन्द्रियजा न स्याद्यदीयं संस्कारकसामर्थ्यावसन्निहितमनधिकरणमश्वत्वमात्रमेव गृह्णीयाग्निरुद्धेन्द्रियव्यापारस्य च भवेत्, व्याप्रियमाणे चक्षुषि तत्संयुक्तमेव तु गोपिण्डमश्वात्मना गृह्णती 'यदीयमन्द्रियजा, का तौन्द्रियजा भविष्यति / विपरीत'ख्यातिरप्यत एवान्यस्यान्याकारेण प्रतिभासनाद् / योऽपि 'निरधिष्ठानो विपर्ययस्तत्राप्यवर्तमानोऽर्थः स्वरूपविपरीतेन वर्तमानाकारेण प्रतीयत इति विपरीतख्यातिरेव न त्वसत्ख्यातिः, स्वरूपतोऽर्थस्य सम्भवाद'सतश्चावभासनायोगात् / यत्र सदृशमर्थमधिष्ठाय विपर्ययः प्रवर्तते, तत्र सादृश्यं कारणम्, निरधिष्ठाने तु विभ्रमे मनोदोषमात्रानुबन्धिनि नास्य सम्भवः, यथा हि कामातुरस्येतस्ततो भाविनि 'स्त्रीनिर्भासे विज्ञाने। संस्कारोपि तत्रैव कारणं यत्र सविकल्पको भ्रमः, निर्विकल्पके त्विन्द्रियदोषस्यैव सामथ्यं तद्भावभावित्वात् / यथा शङ्ख पीतज्ञानोत्पत्तौ / टि०] सोल्लेखत्वे सविकल्पकत्वमेवेति / ननु 'नयनगोलकनीलिमैवायं भ्रान्त्याऽवभासते नाकाशरूपमित्यत्र किं प्रमाणमित्याह “अत्र च तद्गुणेति / [पं०] बन्धिनीति-एतेनेन्द्रियजत्वमपास्तम् / नास्य संभव इति अत्रास्येति-सादृश्यसंस्कारोपीति (कं. 179.6) न केवलं सादृश्यम् / सविकल्पके इति (कं. 179.6) सोल्लेख: तदिदमिति / इन्द्रियदोषस्यैवेति (कं. 179.7) न पुनः सादृश्यसंस्कारयोः / एकविषयत्सादृश्याभावात् पूर्वानुभवाभावात्संस्काराभावः / निर्विकल्पके उदाहरणमाह यथा शलपीतज्ञानोत्पत्ताविति (कं. 1797) अत्रायं भावः यदा शंख धवलमपीन्द्रियदोषात्पीतं जानाति तदा तज्ज्ञानं निर्विकल्पक तच्चेन्द्रियदोषजमेव / परमत्रापि तदिदमिति सोल्लेखत्वे सविकल्पकमेव ज्ञानम्। तत्र तु संस्कारसादृश्य एव कारणमिति भाष्यम् / घिकसादृश्यं च नापेक्षते / तथा सत्यतस्मिस्तदिति लक्षणव्याघातप्रसङ्गात् / कामिन्याद्यां (आ) रोप्येष्वन्ततो गत्वा आलोकमण्डलस्याधिष्ठानत्वात् / (य)[इयांस्तु विशेष:-अस्ति कामादिदोषाणां स कोऽपि महिमा यत् . पदार्थत्वादिनापि कियत्येव सादृश्येन संस्कारानुद्वोधयितुमीशे इति विपर्ययत्वानुमानम् / पीतः शङ्ख इत्यत्रापि संसर्गारोपे अगृह्यमाणे नयनरश्मिवत्तिनि पित्ते वर्तमानस्य गृह्यमाणस्य पीतिम्नस्तेनैवाभिभूतधवलिम्नः शङ्खस्य च केवलस्य गृह्यमाणस्य संसृष्टाभ्यां विरिविल्पपीतिमभ्यामगृह्यमाणासम्बन्धत्वमेव सादृश्यं संस्कारमुबोधयतीति परीक्षकमर्यादा / तथापि लौकिकप्रसिद्धिमनुसृत्य निरधिष्ठानवाचायुक्तिराचार्येण कृतेत्यविरोधः / 1 वा-कं. 1, पं. 2 / 2 यदीय' नेन्द्रियजा-कं. 1, कं. 2 / यद्यनिन्द्रियजा - जे. 1 / 3 ख्यातिः, अत एवान्यस्यान्यारोपेण / 4 निरधिष्ठाने-कं.१; कं.२। 5 असतो वा -कं.१; कं.२। असतोऽव-जे.३ / '6 निर्भासि-जे. 1, जे. 2 / 7 नयनयत-अ, ब, क। 8 तत्र च- अ, ब, क /