________________ 418 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली पिण्डे गोत्वस्याग्रहणे को हेतुः को वा हेतुरसन्निहितस्याश्वत्वस्य प्रतीतावित्याह पित्तकफानिलोपहतेन्द्रियस्येति / पित्तं च कफश्चानिलश्च तैरुपहतं दूषितमिन्द्रियं यस्य तस्यायं विपर्यय इति / वातपित्तश्लेष्मादिदोषाणामसन्निहितप्रतिभासे सन्निहितार्थाप्रतिभासे च सामर्थ्य समर्थितम् / यदि दोषसामर्थ्यादेवासन्निहितं प्रतिभाति सर्व सर्वत्र 'अवमासेत, नियमहेतोरभावा'दत आह-असन्निहितविषयज्ञानजसंस्कारापेक्षादात्ममनसोः संयोगादिति। असन्निहितो विषयोऽश्वादिस्ततः 'पूर्वमुत्पन्नाजानाज्जातो यः संस्कारस्तमपेक्षमाणादात्ममनसोः संयोगाद्विपर्यय इति / अयमस्यार्थः-गोपिण्ड'संयुक्तमिन्द्रियं गोत्वमगृहृदपि तं पिण्डं सादृश्यविशिष्टं गृह्णाति, सांशत्वाद्वस्तुनः / तेन च सादृश्यग्रहणेनाश्वविषयः संस्कारः प्रबोध्यते / स च प्रबुद्धोऽश्वस्मृतिजनने प्राप्ते मनोदोषादिन्द्रियसंयुक्ते गव्यनव एव सादृश्यानुरोधादनुभवाकारामश्वप्रतीति करोति, अतो न सर्वस्य [टि.] नन्वतीतस्य पित्रादे: "केशोण्डुकादेर्वा प्रतिभासोऽसत्ख्यातिरेव, नान्यथाख्यातिरित्याह योऽपि निरधिष्ठाम इति / यद्यत्यन्तासतः। खरविषाणप्रायस्य ख्याति: 'स्यात्तदाऽसत्ख्यातिः स्यादित्यभिप्रायः / यथा पीते शक इति-अत्रापि [पं०] (कं. 178.27) न केवलं भ्रान्तिरित्याख्येति, विपरीतख्यातिरित्यप्युच्यत इत्यर्थः / अत एवेति (कं 178.27) इन्द्रियजत्वादेव नत्वतीतस्य पित्रादेः केशोड़ कादेर्वा प्रतिभासोऽसत्रूयातिरेव न विपरीतख्यातिरित्याशङ्कराह योपीत्यादि (कं. 179.1) / निरधिष्ठान इति (कं. 179.1) निराश्रयो भ्रान्तचक्षुषः केशोण्डू कादी। स्वरूपविपरीतेनेति (कं. 179.2) सत्यकेशादिविपरीते। न त्वसत्ख्यातिरिति (कं. 179.3) यदात्यन्तासतः षष्टभूतप्रायस्य ख्यातिः स्यात्तदा असत्ख्याति स्यादित्यभिप्रायः / अत एवाह स्वरूपतोऽर्थस्य सम्भवादिति (कं. 179.3) / अर्थस्य देः। 'असताऽवभासनायोगादिति (कं. 179.3) असतोऽत्यन्तमविद्यमानस्य / खरविषाणादेः / मनोदोषमात्रान [कु०] ननु यदि दोषः सन्निहितग्रहणं प्रतिबध्नाति तहिं धर्म्यपि कथं गृह्यतेत्यत आह-सांशत्वादिति (कं. 178.21) / धर्मर्मिणो दादोषस्य च शक्तिवैचित्र्यात् सन्निहितेष्वपि कस्यचिदेव ग्रहणं प्रतिबध्यत इति भावः / अत एवेति (कं. 178.23) दोषस्य विपरीतकार्यजननं प्रति सामर्थ्यादित्यर्थः / अनधिकरणमिन्द्रियसम्बन्धानधिकरणम् / अन्वयव्यतिरेकावधुतकारणपरित्यागेऽतिप्रसङ्गमाह व्याप्रियमाण इति (कं. 178.26) / यदि ग[गौः] सम्मेवाश्वः प्रतीयते तथा च सत्ख्यात्यङ्गीकारः कृत इत्यत आह-विपरीतस्यातिरिति (कं. 178.27) / आरोग्यविषयस्यारोप्यात्मना सत्त्वं को नामाङ्गीकरोतीति / योऽपीति (कं. 179.1) यद्यपि नास्त्येवासौ विपर्ययः योऽधिष्ठानं संस्कारं तद्र(व)द 1 प्रतिभासेत -कं. 1, कं. 2, जे. 3 / 2 दित्यत्राह - कं. 1, कं. 2 / 3 पूर्वोत्पन्ना -कं. 1, कं. 2 / 4 प्रयुक्त जे. 1 / 5 गोसादृश्य-कं. 1, कं.२। 6 गव्यश्व-जे। 7 केशोण्डुकादेर्वा-अ, ब, क; 8 स्यादसत्स्यातित्सत्ख्याति-ब, क : 9 शङ्ख पीत-मु. जे. 1, जे. 3;