________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् - 417 प्रशस्तपादभाष्यम् प्रत्यक्षविषये तावत् प्रसिद्धानेकविशेषयोः पित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनाद् असन्निहित विषयज्ञानजसंस्कारापेक्षादात्ममनसोः संयोगादधर्माच्चास्मिस्तदिति प्रत्ययो विपर्ययः / यथा गव्येवाश्व इति / ___न्यायकन्दली प्रत्यक्षानुमानविषय एव भवतीति प्रत्यक्षानुमानव्यतिरेकेण प्रमाणान्तराभावात् / प्रत्यक्षविषये तावत् प्रसिद्धानेक विशेषयोरिति प्रसिद्धाः पूर्व प्रतीता अनेके विशेषाः सास्नादयः केसरादयश्च ययोस्तौ प्रसिद्धानेकविशेषौ गवाश्वौ तयोर्मध्ये योऽतस्मिन्ननश्वे गवि तदिति प्रत्ययोऽश्व इति प्रत्ययः स विपर्ययः। - ननु 'यदा गवि गोत्वसास्नादयश्च विशेषाः परिगृह्यन्ते तदा विपर्ययो न भवति, भवति चेदस्यानुपरमप्रसङ्गस्तत्राह-अयथार्थालोचनादिति / अयथार्थालोचनं यथार्थालोचनस्याभावो यथासावर्थों गौः सानादिमांस्तथाग्रहणाभाव इति यावत् / तस्मादतस्मिस्तदिति प्रत्ययो भवतीति / अनेन विशेषानुपलम्भस्य कारणत्वमुक्तम् / सन्निहिते [20] भ्रान्तिज्ञानात् भ्रान्तिरुत्पद्यते इत्यर्थो न 'घटते इत्यभावप्राधान्येन व्याख्यातं यथार्थालोचनाभावादिति / गुरुभिः इति-भट्टाचार्यै रित्यर्थः [पं०] अयार्थालोचनाद् (कं. 178.9) इत्यत्र भावप्राधान्ये भ्रान्तिज्ञानाद्धान्तिरुत्पद्यते 'इत्यर्थः, न 'घट' इत्यभाव. प्राधान्येन व्याख्यातं यथार्थाभावालोचनाभावादिति मर्मः / .. अत्यश्व 'सादृश्यविशिष्टमिति (कं. 178.20) अश्वसादृश्यविशिष्टम् / सांशत्वादिति (कं. 178.20) ' सामान्यांशे / गोत्वं विशेषांशः सादृश्यविशिष्ट: पिण्डस्तत: सहाशाभ्यां वर्तते इति साशं, तस्य भावः सांशत्वं, तस्मात्सांशत्वादिति समासः / गुरुभिरिति (कं. 178.24) भाट्टः / असन्निहितमिति (क. 178.25) संस्कारस्यासन्निहित विषयत्वात / अनधिकरणमिति (कं. 178.25) न हि गोपिण्डेऽधिकरणेऽश्वत्वमस्ति / विपरीतख्यातिरपीति [कु०] न भवतीति प्रतिपादनपरम् / आरोपविषयस्य विशेषप्रतीतिर तन्त्रमेव इतरथा नालिकेरद्वीपवासिनोऽङ्गाराप्रतीतौ . कुत्रचिद् विपर्ययानुत्पत्तिप्रसङ्गात् / द्विवचनं तु व्यत्यासेनापि / विपर्ययं सम्भावयितुमारोप्यप्रसिद्धेश्च फल तद्विषयः संस्कारः तस्य च फलमनन्तरमेव वक्ष्यति / - अयथार्थालोचनादिति (कं. 178.9) न पदं विपर्ययोत्पत्तिकाले विषयविशेषाः प्रसिद्धेः कारणत्वं प्रतिपादयितुमित्यमुमर्थं शङ्कापूर्वकं व्याचष्टे ननु "यदेति (कं. 178.7) / लिङः पूर्वपदसम्बन्ध[:]तमं[तं] निवारयति [अ] यथार्थालोचनस्याभाव इति (कं. 178.9) / तथा च नात्मश्रयदोष इति भावः। -1 विषयजसंस्कारा - दे। 2 विशेषयोरपि - कं. 1, कं. 2 / 3 यदि-कं. 1, कं.२। 4 घटे-अ। 5 इत्यर्थः इति 'अ' पुस्तके नास्ति / 6 गोसादृश्य विशिष्ट-कं. सादृश्यवि-ब। 7 म. कन्दल्याम् 'अपि' नास्ति। .8 असतो वा-कं। 9 रनन्तरमेव - इति पाठः स्यात-सं। 10 भाष्यप्रतीकमिदम्-सं। 11 यदि-कं /