________________ 416 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [159] विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति / - न्यायकन्दली पुरुषत्वाद्य'वरोधः। वक्र कोटरादयः स्थाणुत्वाभिव्यक्तिहेतवः, शिरःपाण्यादयः पुरुषत्वाभिव्यक्तिहेतवः, तेषामनुपलम्भात् / स्थाणुत्वपुरुषत्वयोरनभिव्यक्ती सत्यामुभयोः स्थाणुपुरुषयोः प्रत्येकमुपलब्धानां विशेषाणामनुस्मरणादुभयत्राकृष्यमाणस्य उभयत्र स्थाणी पुरुषे वाकृष्यमाणस्य प्रतिपत्तुर्यदोर्खतादर्शनात् स्थाणुरयमिति निश्चेतुमिच्छति तदा पुरुषविशेषानुस्मरणेन पुरुष समाकृष्यत [यदा पुरुषोऽयमिति निश्चेतुमिच्छति तदा स्थाणुविशेषानुस्मरणेन स्थाणावाकृष्यत] इत्युभयत्राकृष्यमाणः, अत एवास्य प्रत्ययो 'दोलायते, नैकत्र नियमेनावतिष्ठते / दोलासाधर्म्यमनवस्थितरूपत्वमेव प्रत्ययस्य दर्शयति / -किन्नु खल्वयं स्थाणुः स्यात् पुरुषो वेति / [159) संशयानन्तरं विपर्ययं निरूपयति-विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवतीति। संशयस्तावत् प्रत्यक्षानुमानविषय एव भवतीति विपर्ययोऽपि तद्विषये भवतीत्यपिशब्दार्थः। : [टि०] [159] // अथाऽविद्याप्रभेदनिरूपणे विपर्ययनिरूपणम् // . गवाश्वावित्यत्र 'समाहाराभावश्चिन्त्यः / अययार्थालोचनाद् इति :- अयथार्थालोचनादित्यत्र भावप्राधान्ये [पं०] पुरुषविशेषानुस्मरणेनेति (क. 177.5) पुरुषसत्कविशेषानुस्मृत्या। 'स्थाणुविशेषाऽनुस्मरणेनेति-स्थाणुसत्कविशेषानुस्मृत्या / / x X __[159] प्रमाणान्तराभावादिति (कं. 178.4) वैशेषिकाणां मते। गवाश्वौ इति (कं. 178.6) अत्र समाहारैकत्वं प्राप्नोति अतश्चिन्त्यमेतल्लाक्षणिकैः / [कु.] 'उभयत आकृष्यमाणस्येति (कं. 177.4) भाष्यकारेण वैचित्र्यप्रतिपाद[न]परमित्यतस्तदेवं वैचित्र्यं प्रतिपादयति उभयत्र स्थाणौ पुरुषे वेति (कं. 177.4) नत्वत्रेच्छादिकं परमार्थप्रतीतिविरोधात् / उभयविशेषविषयस्मरणाकारणजननादि पूर्वोक्तेन विरोधेन प्रसङ्गाच्च / [इति संशयः ] [159] प्रत्यक्षानुमानव्यतिरेकेणेति (कं. 178.3) अन्यथाख्यातिनये विपर्ययस्य सालम्बनत्वादप्रामाणिकस्य च नालम्बनत्वायोगादिति भावः। इह भाष्ये प्रसिद्धानेकविशेषयोरिति पदमारोप्य विशेषस्य पूर्वमप्रतीतावारोपो 1 द्यविरोध:-जे. 3 / 2 [ ] एतच्चिह्नान्तर्गतः पाठः कं. 1, कं. 2 पुस्तकयो स्ति / 3 दोलायतेतरां-जे. 1 / 4 समाहारभाव - अ, ब / 5 प्रतीकमिदं मु. कन्दल्यां नास्ति-सं। 6 उभयत्र-कं /