________________ 414 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् / प्रशस्तपादभाष्यम् [158] स च द्विविधः-अन्तर्बहिश्च / अन्तस्तावद् आदेशिकस्य सम्यङ मिथ्या चोद्दिश्य पुनरादिशतस्त्रिषु कालेषु संशयो भवति-'किन्नु सम्यङ मिथ्या वा' इति / न्यायकन्दली [158] स च द्विविध इति भेदकथनम् / केन रूपेणेत्यत आह-अन्तर्बहिश्चेति / यः समानधर्मोपपत्तेरनेकधर्मोपपतविप्रतिपत्ते'रुपलब्ध्यव्यवस्थातोऽनुपलब्ध्यव्यवस्थातश्च समानतान्त्रिकः पञ्चविधः संशयो दशितः, 'स सर्वो द्वविध्येनैव संगृहीतः।.. अन्तस्तावद 'आदेशकस्येति / 'आदेशको ज्योतिवित, तेनेकदा किञ्चिद ग्रहसञ्चारादिनिमित्तमुपलभ्यादिष्टं एवममुकेत्राभूद्वर्त्तते भविष्यति चेति, तत्तथैव तदा संवृत्तम् / अन्यवादिष्टं तद्वितथमभूत् / पुनरिदानी तस्योत्पन्नं तथाभूतमेव निमित्तं दृष्ट्वादिशतोऽन्तः स्वज्ञाने संशयो भवति यदेतन्मम नैमित्तिकं ज्ञानमभूत तत्कि सत्यमसत्यं वेति / अ [टि०] [158] यः समानधर्मेति समानधर्मोपपत्तेर्यथा '[स्थाणुर्वा पुरुषो वेति असाधारण धर्मोपपत्तेर्यथा] आकाशविशेषगुणत्वात् शब्दो नित्यो वा स्यादनित्या वेति / 'केषांचिद् भौतिकान्यन्येषां चाभौतिकानीति विप्रतिपत्तेर्यथा [पं०] [158] समानधर्मोपपत्तरिति (कं. 176.13) यथा स्थाणुर्वा पुरुषो वेति / अनेकधर्मापपत्तेरिति (क.१७६.१३) यया आकाशविशेषगुणत्वाच्छब्दो नित्यो वा स्यात् कृतकत्वादनित्यो वेति 2 / विप्रतिपत्तरिति (कं. 176.13) यथा केषाचिन्मते भौतिकानि, अन्येषां चाभौतिकानीति, ततः किमिन्द्रियाणि भौतिकान्यभौतिकानि वा 3 / उपलब्ध्य व्यवस्थात इति (कं. 176.13) यथा तडागादौ सन् मृगतृष्णादौ चासज्जलमुपलभ्यते, तस्मात्कि सद् असद्वा जलमुपलभ्यते 4 / अनुपलब्ध्यव्यवस्थात इति (कं. 176.14) यथा कि विद्यमानोऽविद्यमानो वा पिशाचो नोपलभ्यत इति 5 / समानतान्त्रिकरिति (क. 176.14) नैयायिकः / ज्ञानविषयोऽन्तःसंशयोऽन्यविषयस्तु बहिः संशयः / [कु०] [158] सर्वोऽपि संशयः समानधर्मोपपत्तेरेव तत्र यथाऽन्तर्बहिरित्यान्तर्गणिको भेद: समानधर्ममनुरुद्धचैव तद्वदन्योऽपि पराभिमतो भेदः समानधर्ममनरुद्धचव / न तु तत्प्रतिरोधेन तत्र तावदनेकान्यनिरूपयिष्यते (न्म)। विप्रतिपत्तिस्तु परस्परोपमर्दन प्रत्तिपत्तितद्विषयत्वं हि इन्द्रियभौतिकत्वयोः समानो धर्मः / एवं सतश्च (1) 4 रुपलब्ध्यनुपलब्ध्यव्यवस्थात - जे. 1 / 5 स समस्तोऽपि - जे. 1 / 3-4 आदेशिक - कं. 1; कं. 2 / 5 किञ्चिदिष्टमनिष्टं वात्रा - कं. 1; कं. 2 / 6 [ ] ब्यत्ययेन दर्शितानुसारं पाठः अपुस्तके आवृत्तः / 9 काचिद् अ, डपुस्तके पदमिमं नास्ति।