________________ टिप्पणपञ्जिकाकूसमोद्गमादिटीकात्रयोपेतम् 413 न्यायकन्दली नन्वनवधारणात्मकः प्रत्ययश्चेति 'विप्रतिषिद्धम् / इदं हि प्रत्ययस्य प्रत्ययत्वं यद्विषयमवधारयति / न, उभयस्यापि सम्भवात् / अयं हि सामान्यविशिष्टधर्म्युपलम्भेन धर्मविशेषानुपलम्भविरुद्धोभयविशेषस्मरणसहकारिणा 'जन्यमानोऽयमिति सामान्यविशिष्टं मिणमवधारयन् स्थाणुर्वापुरुषो वेति विशेषमनवधारयन्ननवधारणात्मकः प्रत्ययश्च स्यात् / दृष्टं हि यत्र 'विलक्षणा सामग्री तत्र कार्यमपि विलक्षणमेव, यथा 'प्रत्यभिज्ञानम्। - संशयोऽप्यविद्या, सा चानिष्टा पुरुषस्येत्यधर्मकार्यत्वं तस्य दर्शितम्। अधर्माच्चेति / सामान्यं दृष्ट्वा यदेकं विशेषमनुस्मृत्य 'विशेषान्तरमनुस्मरति तदा सामान्यदर्शनस्य विनष्टत्वात् संशयहेतुत्वानुपपत्तिरिति चेन्न, उभयविशेषविषयाभ्यां संस्काराभ्यां युगपत्प्रबुद्धाभ्यामुभयविशेषविषयकस्मरणजननात्, तत्काले च विनश्यदवस्थस्य सामान्यज्ञानस्य सम्भवात् / [टि०] सामान्यं दृष्ट्वा यदा इति - संशयो हि उर्वताविशिष्टसाधारणमिज्ञानस्थाणुत्वपुरुषत्वस्मरणेभ्यो जायते त्रयाणां च ज्ञानानामविनश्यदवस्थानामेकदासम्भवाभावात्कथं संशयजनकत्वम् ? यदा' हि स्थाणुत्वस्मरणं तदा सामान्यज्ञानस्य "विनश्यत्तासद्भावात यदा च पुरुषत्वज्ञानं तदा सामान्यज्ञानस्य "विनष्टत्वादिति / [पं०] च घटनात् इत्यर्थः / सामान्यविशिष्टधर्म्युपलम्भेन (कं. 176.3) इत्यत्र सामान्यमूर्ध्वताख्यं, सादृश्यम् / धर्मविशेषेत्यादि (क. 176.4) धर्मविशेषाणां वक्रकोटरशिरःपाण्यादीनां योऽनुपलम्भस्तत्सहकारिणा विरुद्धयोरुभयोविशेषयोः स्थाणत्वपूरुषत्त्वयोयंत्स्मरणं तेन च सहकारिणेत्यर्थः / यथा प्रत्यभिज्ञानमिति (कं. 176.7) प्रत्यभिज्ञानं हि अतीतवर्तमानविषयत्वादिलक्षणम् / / परवाक्यं सामान्यं दृष्ट्वेत्यादि (कं. 176.8) / एकं विशेषमिति (कं. 176.8) पुरुषविशेषम् / 'विशेषान्तरमिति (कं. 176.9) स्थाणविशेषम / अस्य च वाक्यस्यायं भावः संशयो हि ऊर्यताविशिष्टसाधारणमिज्ञानस्थाणपुरुषत्वस्मरणे जायते त्रयाणां च ज्ञानानामविनश्यदवस्थानामेकयाऽसम्भवात्कथ संशयजनकत्वम् / यथा स्थाणुत्वस्मरणं तदा सामान्यज्ञानस्य विनश्यतासद्भावात्, यदा च पुरुषत्त्वज्ञानं तदा सामान्यज्ञानस्य विनष्टत्वादिति श्रीधरवाक्यं 'नोभयेत्यादि (कं. 176.10) / [कु०] चोपलब्धिरित्यङ्गीकारे स्थाणुपुरुषविषयेयमनेका स्मृतिः प्रतिविषयं भिन्ना अभिन्ना वा ? आये स्थाणुपुरुषादित्याकार: स्यात, द्वितीये त स्थाणश्च पुरुषश्चेति विद्यते सा चानिष्टेति / अन्यथा तद्धयानार्थ विशेषजिज्ञासानुपपत्तेः स्मृत्योविशेषविषययोः क्रमेणोत्पत्ति मन्यमानस्य चोद्यं सामान्यं दृष्ट्वेति कं. 176.8) / एकैव विशेषद्वयविषया स्मृतिरिति मन्यमानस्य परिहार: नेति (कं. 176.11) / दैविध्येनैव सङगहीत इति / 1 प्रतिषिद्धम्-कं. 1; कं.२। 2 जन्यमान इति-कं. 1; कं.२। 3 विलक्षणसामग्री-कं. 1; कं.२। .4 प्रत्यभिज्ञा ज्ञानम् - जे. 2 / 5 विशेष-क. 1; कं. 2 / 6 तदा-ड / 7 स्याविनश्यन्त - अ, ब। 8 विश्वरत्वात् –अ, ब; विनश्वरत्वात् - क / 9 विशेषम् - कं /