________________ 412 व्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली सादृश्योपलम्भाभिधानाधर्म्युपलम्भोऽपि लभ्यते / 'तस्यानुपलम्भे तद्धर्मस्य सादृश्यस्योपलम्भाभावात् 'संशयोऽपि च धर्मिण्येव न सादृश्ये, तस्य निश्चितत्वात् / सादृश्यमिति च 'साधारणधर्ममात्रं कथ्यते नानेकार्थसमवेतं सादृश्यम् अस्पर्शवत्त्वस्य स्पर्शाभावस्याकाशान्तःकरण साधारणस्य प्रतीत्यात्मन्यणुत्वमहत्त्वसंशयदर्शनात् / ___ तदयं संक्षेपार्थः-यदायं प्रतिपत्तोभयसाधारणं धर्म क्वचिदेकत्र मिण्यपलभते, कुतश्चिनिमित्तात् तस्य मिणो विशेषं नोपलभते, पूर्वप्रतीतयोः स्मरति विरुद्ध विशेषयोः, न चोभयोरेकत्र सम्भावयति सद्भावम्, विरुद्धत्वात् / नाप्यभावं तदबिनाभूतस्य साधारणधर्मस्य दर्शनात् / तदास्य साधारणधर्मविषयत्वेनावधारिते मिणि विशेषविषयत्वेनानवधारणात्मकः प्रत्ययः संशयो भवति / [टि०] धर्मवत् धर्मिणोऽपि दर्शनं नाभ्युपेयमित्याह सादृश्योपलम्भाभिधानाद् इति। विरुद्धविशेषयोः इति :-'विशेषयोः स्थाणुत्वपुरुषत्वयोः / अयं हि सामान्यविशिष्टेति :- 'उर्ध्वत्वसामान्यविशिष्टधर्म्युपलम्भेन धर्मविशेषाणां वक्रकोटरशिरःपाण्यादीनां योऽनुपलम्भस्तत्सहकारिणा विरुद्धयोरुभयोविशेषयोः स्थाणुत्वपुरुषयोर्यत्स्मरणं तेन च सहकारिणेति / . [पं०] प्रतीत्याऽणुत्वसंशयः- इति यथासङ्खचं योज्यम् / अस्य वाक्यस्यायं भावः, यदि ह्यनेकार्थसमवेतं सामान्यमत्र गृह्यते ततोऽस्पर्शवत्त्वस्य संशयहेतुत्वं न स्यात्, अस्पर्शवत्त्वस्य स्पर्शाभावरूपतयाऽनेकोथंसमवेतसामान्यरूपत्वाभावात् / अत एव स्पर्शाभावस्य एतेन पर्यायशब्देन विवृतमिति / ___कुतश्विनिमित्तादिति (कं. 175.20) [ति]मिरान्धकारादेः / विरुद्धविशेषयोरिति (कं. 175.21) स्थाणुत्वपुरुषत्वयोः तदास्येति (कं. 175.22) अस्य प्रमातुः / परवाक्यं नन्ववधारणात्मक (कं. 176.2) इत्यादि / 'विप्रतिषिद्ध इति यत्र द्वौ प्रसङ्गादन्यत्र चरितार्थो एकस्मिन् प्राप्नुत: स तुल्यबलयोविरोधो विप्रतिषेधः। श्रीधरवाक्यं नोभयस्यापि सम्भवात (कं. 176.3) इति / नेति भोः परमैवं वादी:,प्रत्ययश्चानवधारणात्मकश्चेति विप्रतिषिद्धमिति; उभयस्यापि प्रत्ययत्वस्यानवधारणात्मकत्वस्य [कु०] नन्वत्र संशयस्य किं लक्षणं 'कियांश्वांश कारणोपन्यास इति जिज्ञासुं प्रत्याह-"तदयमिति / विमर्शः संशय इति लक्षणं परिशिष्टं कारणोपन्यासः, स्वरूपोपन्यासश्चेत्यर्थः / नन्वत एव विरोधात्प्रत्ययभेदोऽस्तीत्यत आह-दृष्टं हीति (कं. 176.6) / ' प्रत्ययैक्यानङ्गीकारे वा शब्देन प्रत्ययाकारनिर्देशो नोपपद्यते। तथाहीह स्थाणपुरुषयोः स्मरणमात्रं पुरोवत्तिन 1 अस्या-कं. 1, कं.२। 2 संशयोऽपि धर्मिण्येव-कं. 1, कं. 2 / 3 साधारणं-जे. 3 / 4 गतस्य - कं. 1, कं. 2 / 5 -धानाति - // 6 विशेषणयोः 'ड'पुस्तके नास्ति। 7 उर्ध्वत्वं सामान्यं - अ, ब, क / 8 इदं प्रतीकं मु. कन्दल्यां नास्ति तत्र तु प्रतिषिद्धम् (175.2) इति पाठः। 9 क्रियात्वांश:- MSI 10 तदिमिति -MS; तदयं- कं।