________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 411 न्यायकन्दली [157] अन्ये तु संशयप्रभेद एव, तर्कोऽनवधारणात्मकत्वादित्याहुः / संशयस्तावत् / तावच्छब्दः क्रमार्थः / संशयस्तावत् कथ्यते इत्यर्थः / प्रसिद्धानेकविशेषयोरिति / प्रसिद्धाः पूर्व प्रतीता अनेकविशेषा असाधारणधर्मा वक्रकोटरादयः शिरःपाण्यादयश्च ययोः स्थाणपुरुषयोस्तयोः सादृश्यमात्रस्य साधारणधर्ममात्रस्य क्वचिदेकत्र मिणि दर्शनाद् उभयोः स्थाणुपुरुषयोविशेषाणां वक्रकोटरादीनां शिरःपाण्यादीनां च पूर्वप्रतीतानां स्मरणादधर्माच्च 'किस्विदिति उभयावलम्बी विमर्शः संशयः। कि स्थाणुः? किं वा पुरुषः ? इति 'अनवस्थितोभयरूपेणोभयविशेषसंस्पर्शी विमर्शो विरुद्धार्थावमर्शो ज्ञानविशेषः संशयः / सादृश्यमात्रदर्शनादिति / मात्रग्रहणसामर्थ्याद्विशेषाणामनुपलम्भो गम्यते / दर्शनशब्द उपलब्धिवचनो न प्रत्यक्षप्रतीतिवचनोऽनुमेयस्यापि सामान्यस्य संशयहेतुत्वात् / [टि०] [157] // अथ बुद्धिनिरूपणप्रकरणेऽविद्याप्रभेदनिरूपणे संशयनिरूपणम् // - ''वक्रकोटरादीनाम् इति - वक्रकोटरशिरःपाण्यादि स्मरणे च तदविनाभूतयोः स्थाणुत्वपुरुषत्वसामान्ययोरपि ' स्मरणादिति ज्ञेयम् / अनुमेयस्यापि इति -विषाणमात्रदर्शनात ज्ञानान्तरिते पशौ। ननु सादृश्यदर्शनाव धारणे विशेष [पं०] [157] साधारणधर्ममात्रस्येति (कं. 175.12) ऊर्ध्वत्वस्य / अनुमेयस्यापि सामान्यस्य संशयहेतुत्वादिति (कं. 175.17) यदि दर्शनमवलोकनमेव 'ध्यायते तदाऽनुमेयस्य सामान्यस्य संशयहेतुत्वं न स्यात् किन्तु साक्षात्क्रियमाणस्यव सामान्यस्य संशयहेतुत्वं स्यात् / दृश्यते चानुभेदस्यापि सामान्यस्य संशयहेतुत्वम्, यथा विषाणमात्रदर्शनाद् ज्ञाटान्तरिते पशौ। एतावता सामान्यधर्मो दृष्टश्चानुमितश्च संशयमुत्पादयता उपलब्ध्यर्थतयाऽत्र दर्शने व्याख्याते। उभयोरपि ग्रहणमिति तत्त्वम् / न तु सादृश्यदर्शनावधारणे विशेषधर्मवद्धर्मिणोऽपिदर्शनं नाभ्युपेयमित्याह सादृश्योपलम्भेत्यादि (कं. 175.17) "तस्यानुपलम्मे (कं. 175.17) इत्यत्र तस्य धर्मिणः / सादृश्ये (कं. 175.16) इति ऊवंतादौ / नानेकार्यसमवेतं सादृश्यामिति (कं. 175.17) सादृश्येऽनुवृत्तिहेतुरपि नानेकार्थ समवेतं न सामान्यतुल्यमित्यर्थः / अस्पशंवत्त्वस्येत्यादि (कं. 175.18) अत्राणुत्व· महत्त्वसंशयदर्शनादिति / आकाशसाधारणस्यास्पर्शवत्त्वस्य प्रतीत्या महत्त्वसंशयः, अन्तःकरणसापारणस्यास्पर्शवत्त्वस्य [कु०] [157] अन्ये त्विति (कं. 174.18) (ते) कोटिद्वयस्पर्शविरहो दोषः प्रागेवोक्त इति भावः / धर्म्यनुपलम्भे धर्मो मोपलभि तया[था]पि धर्म्युपलम्भस्य संशयकारणं कुतोऽत आह संशयोऽपीति (कं. 175.19) / सादश्यमिति (कं. 174.20) एतादशस्य सादश्यस्य संशयकारणत्वमदाहरणे स्पष्टयति-अस्पर्शवत्वस्येति (कं. 175.21) / 1 पूर्वं प्रतीतानां-कं. 1, कं. 2 / 2 किं स्यादिति-जे. 1, जे. 2, जे. 3 / 3 अनवस्थितेन रूपेणोभय-जे. 1; जे.२। 4 प्रतीकमिदं अबपुस्तकयो स्ति। 5 स्मरणाच्च-अ, ब, क। 6 धारणा -अ, ब। 7 व्याख्यायते -ब। 8 अस्यानु-कं।