________________ 410 म्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अनुजानात्ययमेकतरधर्म न त्ववधारयति / न चायं संशयोऽपि, उभयकोटिसंस्पर्शाभावात् / किन्तु संशयात् प्रच्युतो निर्णयं चाप्राप्तः सम्भावनाप्रत्ययोऽन्य एव / तथा च लोके वक्तारो भवन्ति-'एवमहं तर्कयामीति / न, योग्यतावधारणाद्यत्र विपक्षाभावस्तत्रान्यतरपक्षोपपत्तिः, यत्र तु तस्य सम्भवस्त'त्रानुपपत्तिरित्यन्वयव्यतिरेकदर्शी विपक्षाभावं प्रतिपद्यमानः सम्भावयत्ययमनुत्पत्तिधर्मको भविष्यतीत्यस्मिन्नर्थे प्रमाणमेतत्प्रतिपादनाय योग्योऽयमर्थ इति प्रमाणयोग्यतां विषयस्याध्यवस्यतीति अनुमानमेव / इत्थमेव च प्रमाणमनुगृह्णाति, योग्यताप्रतीतेः प्रमाणप्रवृत्तिहेतुत्वात् / अन्यथा पुनरिदं सम्भावनामात्रमनर्थकमेव, स्वयमप्रमाणस्य सिद्धयुपलम्भयोरनङ्गत्वाद्विषयविवेकस्यापि विपक्षाभावं प्रतिपादयता बाधकप्रमाणेनैव कृतत्वात् / [पं०] तस्येति (कं. 174.13) विपक्षस्य / अन्वयोध्यतिरेकदर्शीति (कं. 174.13) तकः / एतत्प्रतिपादनायेति (कं. 174.14) अनुत्पत्तिधर्मकत्वकथनाय / प्रमाणमनुगृह णातीति (कं. 174.15) अत्र तक: कर्ता, प्रमाणमिति भविष्यदनुमानम् / योग्यताप्रतीतेः प्रमाण[प्र]वृत्तिहेतुत्वादिति (कं. 174.16) तर्कात् योग्यसाप्रतीतिस्ततश्च प्रमाणप्रवृत्तिः / 'सिद्धघुपालम्भयोरिति (कं. 174.17) विधिनिषेधयोः। न तु सम्भावनात्मकस्य तर्कस्य योग्यतावधारणमन्तरेणापि अनुत्पत्तिधर्मकत्वसाधनस्य विवेककरणेनैवोपयोगोऽस्तीत्येतदाशङ्कयाह - विषयेत्यादि (कं. 174.17) / प्राणिनां संसारापवर्गप्रतिपादकमागमादिकं भवदभ्युपगतसम्भावनाज्ञानजनकं यदबाधकं प्रमाणं तेनैव विषयविवेकः सिद्धः / तस्मादयोग्यताऽवधारणमात्रफलस्तर्को न विषयविवेकफल इति वाक्यार्थः / .. [कु०] विपक्षामावलिङ्ग इति (कं. 174.7) तत्साध्यस्य विपक्षोच्छेदस्य कार्यभूता स्वपक्षजिज्ञासा तर्कस्यैव फलमित्यर्थः / अनुग्रहस्यानुग्राह्यापेक्षयोक्तमन्तर्भावमजानानश्चोदयति भवत्येवमिति (कं. 174.8) / उक्तं स्मारयन् परिहरति योग्यतावधारणादिति (कं. 174.11) / न मया तकस्य मुख्यं प्रमाणमुक्तं किंतूपकार्योपकारक द्योतयोरभेदविवक्षयेति भावः / अस्मिन्नर्थ इति (कं 174.14) अस्मिन्नर्थ प्रमाणानग्राह [क]प्रमाणं कारण तकं इत्यर्थः / अनुमान[मे]बेति (कं. 174.15) विच्छिन्नविपक्षे (छ) स्वस्य स्वपक्षजिज्ञासक प्रमाणमनुगृह्णातीत्यर्थः / अन्यथेति (कं. 174.16) अनुभवानङ्गीकार इत्यर्थः / प्रमाणानुग्रहस्तकस्य कार्य न भवति किन्तु विषयविवेक इत्यत अविवेकविषयस्यापीति बाधकप्रमाणेनैव कृतत्वादिति (कं. 174.18) तस्यापि तर्ककार्यत्वादनुग्रहं प्रत्यङ्गत्वाच्चेति भावः / [इति तर्कः 4 लिङ्गक - कं; 1 एतदहं - जे. 2 / 2 तत्रानुत्पत्तिः - जे. 3. / - 3 सिद्धथुपलम्भयो - कं। प्रतीतिलिङ्गक - पा. ह. पु. /