________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 409 न्यायकन्दली अथ स्वपक्षसम्भावनात्मकः प्रत्ययस्तर्कः ? अस्योत्पत्तौ कि कारणम् ? न तावत्स्वपक्ष'साधकं प्रमाणम्, तस्याप्रवृत्तेः। तर्केण विवेचिते विषये स्वपक्षसाधकं प्रवर्तते। तदेव यदि तस्य कारणम्, सुव्यक्तमन्योन्याश्रयत्वम् / ‘विपक्षाभावे प्रतीते स्वपक्षसम्भावनोपजायत इति विपक्षाभावप्रतीतिरस्य कारणमिति चेत् ? तहि विपक्षा'भावप्रतीतिलिङ्गकमनुमानमेवैतत्, परस्परविरुद्धयोरेकप्रतिषेधस्येतरविधिनान्तरीयकत्वात् / भवत्येवं यदि विषयमवधारयत्येवमेवेदमिति / [टि०] 'विपक्षाभाव इति अन्वयव्यतिरेकदर्शी प्रमाता / एतदनुत्पत्तिधर्मकत्वम् / "सिद्धघुपलम्भयोः इति - विधिनिषेधयोरित्यर्थः / ननु सम्भावनात्मकस्य तर्कस्य योग्यतामन्तरेणाप्यनुत्पत्तिधर्मकत्वसाधनस्य विषयविवेककरणेनैवोपयोगोऽस्तीत्येतदाशङ्कयाह विषयविवेकस्यापि इति - प्राणिनां संसारापवर्गप्रतिपादकमागमादिकं भवदभ्युपगत सम्भावनाज्ञानजनक यद बाधक प्रमाणं 'तेनैव 'विषयविवेकः सिद्ध इति किमन्तर्गड़ना सम्भावनामात्रेणेति भावः / // विद्याऽविद्या सामान्यतो भेदनिरूपणम् // [पं०] पदघटना / तस्याप्रवृत्तरिति (कं. 174.4) तस्या प्रमाणस्याद्यापि अप्रवर्तनादित्यर्थः / तदेवेति (कं. 174.5) स्वपक्षसाधनम् / सुव्यक्तमन्योन्याश्रयत्वमिति (कं. 174.5) तर्केण विवेचिते विषये स्वपक्षसाधनं प्रवर्तते / * स्वपक्षसाधनाच्च तर्क इती [तरे] तराश्रयदोषप्रसङ्गः / :: अस्येति (कं. 174.7) तकस्य / अनुमानमेवैतद् (कं. 174.7) एतत्तकंज्ञानम् / एकप्रतिषेधस्येति (कं. 174.8) विपक्षनिषेधस्य / इतरविधि नान्तरीयकत्वादिति (कं. 174.8) सपक्षविधानाविनाभावित्वात् / परवाक्यं भवत्येवम् (कं. 174:8) इत्यादि। अवधारयतीति (कं. 174.8) अत्र तर्कः कर्ता / एवमेवेदम् (कं. 174.9) इत्यस्मात् पुर: किन्तु इत्यध्याहार्यम् / अनुजानातीति (कं. 174.9) विपक्षनिषेधेन एककोटीस्थाप्राबल्यमुत्पादयति इत्यर्थः / सूरिवाक्यं न योग्यतावधारणादित्यादि (कं. 174.11) / अन्यतरपक्षोपपत्तिरिति (कं. 174.12) सपक्षोपपत्तिः / 173.26) यत्परपक्षाभावग्राहक प्रत्यक्षमनुमानं वा तदुपकारस्तत्फलं तत्रवोपकार्येऽन्तर्भवतीत्यर्थः / अमं च ये - प्रमाणानुग्राहकस्तर्क इति वदन्ति तान् प्रति; ये तु प्रसङ्गं स्वतंत्रसाधनं वदन्ति तान्प्रति कथमन्तर्भाव इत्यत आह. प्रसङ्गोऽपीति (कं. 174.1) / विपरीतप्रमाणस्योपदर्शनमिति (कं. 174.2) विपरीतप्रमाणोपदित्सोत्पादनमिति तच्च . तदुपकारकतया तत्रान्तर्भवतीत्यर्थः / अथेति (कं. 174.3) / स्वाक्षनियताया जिज्ञासाया उत्पादनमित्यर्थः / स्वपक्ष सम्भावना या कारणान्तराभावेन तर्ककलत्वं दर्शयति "तस्योत्पत्ताविति (कं. 174.4) / सुव्यक्तमिति (कं. 174.5) प्रमाणस्योपदर्शनमिति विपरीतप्रमाणत्वाकारणत्वान्योन्याश्रयत्वात्तर्कफलस्य सतस्तनप्रवेशोऽन्याय्य इत्यर्थः / / 1 साधनं-जे. 1, जे. 2, जे. 3 / 2 भावलिङ्गक-कं. 1, कं.२। 3 विपक्षोऽभाव - अ, ब / 4 सिद्धपालम्भयो:-ड / 5 सम्भवना-ड। 6 साधनस्य विवेककरणे-अ। 7 तेनैव विवेक:- अ, ब, क। 8 साधनस्य विवेककरणे-अ। 9 सम्भनीवा-MS; सम्भावना-कं.। 10 अस्योत्पत्तो-कं। - 52 1. समानता का विमान का