________________ 408 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली [156] अत्रोच्यते-कि परपक्षाभावप्रतीतिस्तर्कः ? किं वा स्वपक्षसम्भावना ? आये 'पक्षे प्रमाणमेवेदम्, ज्ञातुरनित्यत्वे संसारापवर्गयोरसंभव इति ज्ञानं यद्यप्रमाणम्, नास्माद्विपक्षाभावसिद्धिः, 'अप्रमाणेन कस्यचिदर्थस्य सिद्धरयोगादि'त्यंत्रानुमानस्याप्रवृत्तिरेव विषयविवेकाभावात् / अथ सिद्धयत्यस्माद्विपक्षाभावस्तदा प्रमाणमिदं प्रत्यक्षाविषु कस्मिश्चिदन्तर्भविष्यति, तवचतिरेकेणान्यस्य प्रतीतिसाधनाभावादित्यकामेनाभ्युपगन्तव्यम् / प्रसङ्गोऽपि विरोधोद्भावनम्, सच्च कस्यचिद् बलीयसो विपरीतप्रमाणस्यो पदर्शनम् / कस्तत्र विपरीतात् प्रमाणात् तदुपदर्शकाच्च वचनादन्यस्तर्कः ? [टि०] [156] परपक्षाभावेति प्रतीतिः 'फलरूपा तर्कस्तस्याः 'करणं प्रमाणमपि तकः / अनुमानस्याप्रवृत्तिः इतिअनमानस्योत्तरकालभाविन 'आत्माऽनुत्पत्तिधर्मक: निरवयवत्वादाकाशवद्' इत्येतस्य / “तव्यतिरेकेणेति प्रत्यक्षादिप्रमाणव्यतिरिक्तं ह्यबाधितानुभवरूपप्रतीतिसाधनं नास्ति / नन्वयमप्रमाणरूपोऽतिप्रसङ्गरूपः सन् प्रमाण मनु गृह्णातीत्याह प्रसङ्गोऽपि इति / अनुजानात्ययम् इति विपक्षनिषेधेनैक कोटीच्छाप्राबल्यमनुज्ञा / "सिद्धान्तवाद्याह न योग्यता इति :-योग्यता ह्यवधारयत्येवेति / ननु यदि योग्यतामवधारयति ततः किमित्याशङ्कय प्रमाणत्वं दर्शयन्नाह यत्र [पं०] [156] अत्रोच्यते इति (कं. 173.22) श्रीधरेण / प्रमाणमेवेदमिति (कं. 173.23) इदं तर्कज्ञानम् / अनित्यत्वे इति (कं. 173.23) उत्पत्तिधर्मकत्वे / कस्यचिदर्थस्य सिद्धेरिति (कं. 173.24) विपक्षाभावसिद्धेः अनुमानस्येति विषयविवेकोत्तरकालीनस्य विषयविवेकाभावादिति (कं. 173.25) विषये हि विवेचिते सति अनुमानं [प्रवर्तते / तद्वयतिरेकेणेति (कं. 174.1) प्रत्यक्षादिव्यतिरेकेण / अकामनापीति (कं. 174.1) अनिच्छतापि / ___अथ स्वपक्षसम्भावनात्मकः प्रत्ययस्तकं (कं. 174.3) इत्यतः पुरस्तदेत्यध्याहार्यम् / अस्योत्पत्ती (कं. 1744) इत्यत्र अस्य तर्कस्य / न तावत्स्वपक्षासाधकं प्रमाणम् (कं. 174.4) इत्यत्र तावत्स्वपक्षसाधकं प्रमाणं न कारणमिति [/0] [156] अत्रोच्यत इति (कं. 173.22) सत्यमस्त्येव तर्कः तस्योक्तास्तु विधास्वन्तर्भाव उच्यते इत्यर्थः / अनायं विवेकः, ऊहस्य तावत्कारणमभ्युगममात्रसिद्धो हेतुस्वरूपं च भवेदित्येवमविद्यमानस्यानिष्टस्य ज्ञानम् / एवं चाहार्यारोपतया ऊहो न विपर्यय एव स वा (ह) [ऽविद्यासु परिगणित एव। तस्मान्न पृथगुपदेष्टव्य इति स्थिते आचार्यस्तर्कफलस्य प्रमाणानुग्रहस्य तर्कादभेदमनग्राह्यानुग्राहकयोश्चाभेदं विवक्षात प्रमाणेऽन्तर्भावयति कि परपक्षाभावेति (कं. 173.22) / यद्यप्यनियतकोटिजिज्ञासोत्पादन] मेव मुख्यं फलं तथाप्यानन्तर्यादनियतकोटिजिज्ञासाम्युदासोऽपि फलमेवेति विकल्पो नानुपपन्नः / संसारापवर्गयोरसम्भव इति (कं. 173.23) ज्ञानमिति-तयोरसम्भवाज्ज्ञातुंरमित्यत्वं जिज्ञासायोग्यं न भवतीति ज्ञानं तच्च प्रमाकरणोपकारकतया तदंशत्वात्तत्रान्तर्भवतीत्यर्थः। "प्रत्यक्षाविति (कं. १कल्पे-जे. 1, जे. 2, जे. 3 / 2 अप्रमाणात्-जे. 1, जे. 3 / 3 दित्यत्रास्य-कं. 1, कं. 2 / 4 दनुप्रविशति -जे. 1, जे. 2, जे. 3 / 5 फलरूपा-अ,ब; 6 कारणं-अ, ब, क, 7 अस्याप्रवृत्तिः म; अनुमानस्याप्रवृत्तिः (3) पा. टि. जे. 1, जे. 3 / 8 तस्य - अ, ब, 9 मनुगहती.- अ. 10 कोटीष्टा प्रारम्य-अ, ब, क; 11 सिद्धत - अ; 12 प्रत्यक्षादिषु -कं।