________________ 407 टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 407 न्यायकन्दली अनेन तूत्पत्तिधर्मकत्वं व्युदस्यानुत्पत्तिधर्मकत्वं 'सम्भावयता विषये विवेचिते सत्यसत्प्रतिपक्षत्वादनुमानं प्रवर्तते इति विषयविवेचनद्वारेण प्रमाणानुग्राहकतया तर्कस्तत्वज्ञानाय घटते, प्रमाणस्य करणत्वेनेतिकर्तव्यतास्थानीयतर्कसहायस्यैव स्वकार्ये पर्यवसानात् / नानपेक्षितवृढमुष्टिनिपीडितो जाल्मकरपञ्जरोदरे विलुठन्नपि कठोरधारः कुठारः प्रतितिष्ठति 'अनिष्ठरस्यापि काष्ठस्य 'छेवाय / तथा चोक्तम्-- महि सत्करणं लोके वेदे वा किञ्चिवीदृशम् / इतिकर्तव्यतासाध्ये यस्य नानुग्रहेथिता // इति / पवि पुनरेवं तर्को नेष्यते परस्यानिष्टापावनरूपः प्रसङ्गोऽपि माभ्युपगन्तव्यः स्यात् ? स हि तदिनतिरिच्यमानात्मा, अस्ति च वैशेषिकाणामपि प्रसङ्गः, न प्रसङ्गो / हेतुराभयासिंद्धतादिदोषात् / [पं०] अनेनेति (कं. 173.12) तर्केण / इतिकर्तव्यतेति (कं. 173.14) इतिकर्तव्यता 'कुठारेण वृढमुष्टिनिपीउमाविरूपादृशः / प्रतितिष्ठतीति (कं. 173.16) प्रभवति। . .: शेषिकाणामपीति (कं. 173.21) न केवलं सौगतामाम् / 'न च प्रसङ्गो हेतुरिति (कं. 173.22) प्रसङ्गो यथा 'सामान्यमनेकं प्राप्नोति, अनेकवृत्तित्वात् अनेकभाजनगततालफलवत्' इति बौद्धोक्ते वैशेषिकः प्राह यत्सामान्यमनेकवृत्तित्वस्याश्रयस्त्वया कथ्यते, तत्तावत् प्रतीत [म]प्रतीतं वा ? प्रतीतं चेत् क्षणो वादः, अप्रतीतं चेदाश्रयासिद्धिः एबमाश्रयासिद्धिसम्भवात् अयं प्रसङ्गो हेतुर्न भवति किन्तु तर्कात्मैव तस्माद्भो वैशेषिक कथं प्रसङ्गगम्, अङ्गीकरोषि न तकमिति परस्याशयः / [कु०] असत्प्रतिपक्षत्वादिति (कं. 173.13) प्रतिपक्षसंशयोच्छेदादित्यर्थः / ननु निश्चयादेव संशयम्युच्छेदः / तत्र निश्चये प्रमाणंसामर्थ (थ्यं)? समथं वा उभयथापि तर्कस्यानुपयोग इत्यत आह प्रमाणस्येति (कं. 173.14) / सत्यं समयं तच सामर्थ्य तर्कसहकृतस्यैवेति भावः / 'नेवमिति तर्कग्यदान्तासापेक्षत्वं प्रमाणस्यैव / किन्नु कारणमात्रस्येत्याह 'महि तविति / तनिङ्गीकारे प्रसङ्गहेतुः किमिति नाभ्युपगन्तव्य इत्यत आह स होति (कं. 173.21) ननु यदि प्रसङ्गहेतुस्तकान्ता[व]तिरिच्यते तहि किं भवतामपि सोऽभिमतः येन तर्कमङ्गोकुर्वन्तीत्यत आह अस्ति घेति (कं. 173.21) / 1 सम्भावयिता - कं. 1, कं. 2 / 2 निष्ठरस्यापि-कं. 1, कं. 2 / 3 छिदाय - जे. 1, जे. 2, जे. 3 / 4 कुठारादिव्यापारण। ५न प्रसङ्गो-कं. 1, कं. 2 / 6 सिधुपलम्भयो-कं। 7, 8 इमे प्रतीके म.के ' पुस्तके नस्तः।