________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली वृत्तिमतोरेकान्तिकतादात्म्याभ्युपगमात् / अथानन्या, तदा बढेरेकत्वे 'विषयाकारवतीनां तद्वत्तीनामप्येकत्वात् त्रिचतुरादिप्रत्ययो दुर्लभः, परस्परविलक्षणाकारसंवेदनाभावाद् बुद्धचारूढाकारमात्रवेदित्वाच्च पुरुषस्य / यथोक्तम्-'बुद्धेः प्रतिसंवेदी पुरुष' इति / वृत्तीनां वा नानात्वे बुद्धेरपि नानात्वादेकत्वव्याघात 'इत्यादिकं दूषणमूह्यम् / . बद्धर्भेदं निरूपयति-सा चानेकप्रकारेति / अत्र कारणमाह-अर्थानन्त्यादिति / यदि नामार्थस्य विषय'स्यानन्तत्वं बुद्धरनेकविधत्वे किमायातम् ? तत्राह-प्रत्यर्थनियतत्वाच्चेति / प्रत्यर्थ प्रतिविषयमस्मदादिबुद्धयो नियताः, अर्थाश्चानन्ता इति प्रत्येक 'तत्र नियता बुद्धयोऽप्यनन्ताः / यदपि क्वचिदनेकार्थविषयमेकं विज्ञानं तदपि तावदर्थनियतत्वात्तदर्थाद्विज्ञानान्तराद्विलक्षणमेवेत्यदोषः / [वि.] ज्ञानं निरूपयति 'बुद्धिरिन्द्रियेति 'बुद्धेः 'विषयाकारपरिणतेन्द्रियाकारपरिणताया विषयाकारोपग्रहवती वृत्तिापारः परिणाम इत्यर्थः / वृत्तीनामनेकत्वात्तदाकारों'पग्रहवतीति विशेषणम् / चेतनाशक्तेः इति / चेतनेव शक्तिरात्मेत्यर्थः / "प्रतिबिम्बतेव इति-सा प्रतिसक्रमा अप्रतिबिम्बा परं तद्वदवभासते। ननु बुद्धिर्माज्ञासीत् पुरुषस्तु शास्यतीत्याह बुद्धचारुढाकारेति :-स्वातन्त्र्येणावे"दित्वात् / ननु किंशुकाशोकचम्पकाद्यालम्बनमेकमेव समूहशानम"स्तीत्याह "यद्यपि क्वचिद् इति / तावत्स्वेवार्थेषु नियतत्वात् / [पं०] तदुत्पावादिति (कं. 172.6) ज्ञानोत्पादात् / साङ्ख्यमतं दूषयति या चास्या (कं. 172.7) इत्यादिना। [वृत्ति]वृत्तिमतोरेकान्तिकतादात्म्याभ्युपगमादिति (कं. 172.8) साङख्यैर्वृत्तिवृत्तिमतोः सर्वथा तादात्म्यमभ्युपगम्यते इत्यर्थः / एकवण्याघात इति (कं. 172.12) भवन्मतोक्तस्य बुद्धयेकत्वस्य विरोधः।। __ "क्वचिदनेकार्थविषयमेकं ज्ञानमिति (कं. 172.17) यथाऽशोककिंशुकचम्पकादिद्रुमसमूहरूपं वनज्ञानम् / अतवर्षादिति (कं. 172.18) अतावदर्थात् / विज्ञानान्तरादिति (कं. 172.18) एकवस्तुविषयाज्ञानात् / [कु०] मदात्मतया परस्परतो भेदाभावत् पुरुषस्य भेद इत्यनुकारो दुर्लभ इत्यर्थः / "इत्यादिकमिति (कं. 172.12) प्रकृतेः परिणामिस्वभावत्वं तत्परिणामे वा कर्तुरेव भोगे मोक्षानुपपत्तिः। अपरिणामित्वे संसारानुपपत्ति इत्यादिकं प्रक्रियादूषणमादिग्रहणेन सङ्गृह्यते। प्रत्येकं तत्र "नियता बुद्धयोऽप्यनन्ता इति (कं. 172.17) अर्थभेदा इयन्तः, बुद्धिभेदो मानसप्रत्यक्षसिद्ध इत्यर्थः / 1 तदाकारवतीनां- जे. 1 / 2 इत्यादि-कं. 1, कं. 2 / 3 स्यानन्त्यं - जे. 1 जे. 3 / 4 तत्र बुद्धयोःकं. 1, कं.२। 5 यदि क्वचिदनेक-कं. 1, कं.२। 6 बुद्धीन्द्रियाणि म. बुढेः-जे..१, जे.३। 7 बुद्धि--- अ, ब, क; 8 परिणतेन्द्रियाकार इत्यावृत्तम् अपुस्तके; तदकार-ड; 10 प्रतिबिम्बि च इति-अ, ब; 11 वेदितत्वात् -म, ब, क 12 समस्ती -; 13 यदि - मु.; यद्यपि-अ, ब; यदपि-जे. 1, जे. 3 14 क्वचिदनेकविषये-के। 15 इत्यादि-कं। 16 'नियता' कं पुस्तके नास्ति /