________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 403 न्यायकन्दली तथा चाह स्म भगवान् पतञ्जलि:-"अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुभवतीति" इति / भोक्तृशक्तिरिति चितिशक्ति'रुच्यते, सा चात्मैव / परिणामिन्यर्थ इति बुद्धितत्त्वे प्रतिसङक्रान्तेवेति प्रतिबिम्बितेवेत्यर्थः। तद्वृत्तिमनुभवति बुद्धौ प्रतिबिम्बिता सती बुद्धिच्छायापत्त्या बुद्धिवृत्त्यनुकारिणीभवतीत्यर्थः / बुद्धेविषयः सुखाद्याकारः प्रत्ययः। तथा चाह-स एव भगवान् “शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, अनुपश्यन्नतदात्मापि तदात्मक इव 'प्रत्यवभासते" इति / एतत् सांख्यमतं निराकर्तुमाह-बुद्धिरित्यादि / यस्या अमी पर्यायशब्दाः सा बुद्धिः / या पुनरियं प्रक्रियोपदशिता सा प्रतीत्यभावादेव पराणुद्यते / विषयहानोपादानानुगुणमुत्पादव्ययधर्मकमेकम्, तदधिकरणं चापरम्, यस्य तदुत्पादात् प्रवृत्तिनिवृत्ती स्याताम्, इत्युभयं 'प्रत्यात्ममनुभूयते, न प्रकारान्तरम् / यो चास्या बुद्धवृत्तिः सा कि बुद्धेरन्याऽनन्या वा ? न तावदन्या, वृत्ति Fo] तद्विकारो महत्तत्त्वं, तस्य चान्तःकरणं चित्तं चेति पर्यायौ तद्विकार(रो) [ऽहङ्कार] तत्त्वम् / ततः पञ्च'तन्मात्राणि, 'स्पर्शनादीनि पञ्चबुद्धीन्द्रियाणि, वाक्पाण्यादीनि पञ्च कर्मेन्द्रियाणि मनश्चेति / अत एव महदहङ्कारसहितैर्बुद्धिकर्मेन्द्रियस्त्रयोदशेन्द्रियाण्युपपद्यन्ते / ज्ञाननिरूपणमन्तरेणोपलब्धिनिरूपयितुं न शक्यत इति प्रथममेव [पं०] सत्त्वस्य प्रकाशकत्वात् ‘सत्त्वं लघु प्रकाशकम्' इति वचनात् / तद्वत्त्यनुकार इति (कं. 171.20) बुद्धिवृत्त्यनुकार: / अपरिणामिनीत्यादि पातञ्जलसूत्रं व्याचष्टे भोक्तृशक्ति(कं. १७१.२२)रित्यादिना / प्रतिबिम्बितेवेति (कं. 171.24) अपरिणामित्वादिवशब्दप्रयोगात् / [तवृत्तिमिति (कं. 171.24) बुद्धितत्त्ववृत्तिम् / स एवेति (कं. 172.1) पतञ्जलिः / बौद्धमिति (कं. 172.2) बुद्धर्भवम् / पराणुद्यत इति (कं. 172.5) क्षिप्यते / यदीयं साङ्ख्योक्ता प्रक्रिया प्रतीत्यभावात् पराणुद्यते तहि किमनुभूयते इत्याह विषयेत्यादि (कं. 172.5) / एकमिति (कं. 172.6) ज्ञानम् / अपरमिति (कं. 172.6) आत्मरूपम् / [0] वैधर्म्यप्रतिपादनावसरे पर्यायपाठः किमर्थ इत्यत आह प्रधानस्येति (कं. 171.18) : 'इत्येतत् साङ्खयमतं निराकर्तुमिति (कं. 172.3) / पर्यायत्वेऽर्थभेदानुपपत्तेरित्यर्थः। प्रतीत्यभावः कथमित्य(तीत्य)त आह-विषयहानेति (कं. 172.5) / त्रिचतुरादिप्रत्ययो दुर्लभ इति (कं. 172.9) वृत्तीनामभिन्नप्रवृत्ति रिष्यते-जे. 1 / 2 नकारवती-जे. 1, जे. 2, जे. 3 / 3 प्रतिभासते -जे. 1, जे. 3 / 4 प्रत्यात्मकम् -जे. 2, जे. 3 / 5 तद्विकारमहत्वं - अ, ब, क; 6 स्पर्शादीनि - अ, स्पर्शदीनानि -ब, 7 पपद्यते - ड, 8 ऐवत् /