________________ टिप्पणपञ्जिकाकूसमोदगमादिटीकात्रयोपेतम् 401 प्रशस्तपादभाष्यम् त्रयाणां समवाय्यसमवायि'निमित्तकारणानां युगपद् विनाशादपि कथम् ? यदापेक्षाबुद्धिरुत्पद्यते तदैव पिण्डावयवेऽपि कर्म, ततो यस्मिन्नेव 'काले कर्मणाऽवयवान्तराद्विभागः क्रियते परत्वस्य चोत्पत्तिस्तस्मिन्नेव काले पिण्डेऽपि कर्म, 'ततोऽवयवविभागात् पिण्डारम्भकसंयोगविनाशः, पिण्डकर्मणा च दिपिण्डविभागः क्रियते, सामान्यबुद्धेश्चोत्पसिरित्येकः कालः / ततः संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिकपिण्डसंयोगविनाशः, सामान्यज्ञानादपेक्षाबुद्धविनाश इत्येतत् सर्व युगपत्त्रयाणां समवाय्यसमवायिनिमित्तकारणानां विनाशात् परत्वस्य विनाश इति // न्यायकन्दली - संयोगापेक्षाबुद्धयोर्युगपद्विनाशादपि कथम् / यदा परत्वमुत्पद्यते 'तदेव परत्वस्याधारे द्रव्ये कर्म, ततो यस्मिन् काले 'परत्वसामान्यज्ञानमुत्पद्यते परत्वस्याधारे, तस्मिन्नेव काले पिण्डकर्मणा दिपिण्डविभागः क्रियते। ततः सामान्य ज्ञानावपेक्षाबुद्धिविनाशो दिपिण्डविभागाच्च दिपिण्डसंयोगविनाश इत्येकः कालः / ततः संयोगापेक्षाबुद्धिविनाशात् परत्वस्य विनाशः / द्रव्यविनाशस्तु तदानीं नास्त्येवेति न तस्य हेतुत्वम् / ..: त्रयाणां समवाय्यसमवायिनिमित्त कारणानां युगपद् विनाशादपि कथम् ? समवायि चासमवायि च निमित्तं च समवाय्यसमवायिनिमित्तानि, "तानि च कारणानि चेति समवाय्यसमवायिनिमित्तकारणानि द्रव्यसंयोगापेक्षाज्ञानानि, तेषां त्रयाणां युगपद्विनाशात् कथं परत्वस्य विनाश इति प्रश्ने कृते "सत्युत्तरमाह-यदेति / "[यदाऽपेक्षाबुद्धिरुत्पद्यते (पं०] न कारणमित्यर्थः / सामान्यबुद्धेरिति (कं. 171.2) सामान्यबुद्धेः सकाशात् / तस्येति (कं. 171.2) अपेक्षाबुद्धिविनाशस्य / द्रव्यविनाशस्तु तदानीं नास्त्येवेति (कं. 171.7) अवयवविभागाभावादिति भावः / समवाय्यसमवायिनिमित्तकारणानि द्रव्यसंयोगापेक्षाज्ञानानीति (कं. 171.10) समवायिकारणं चैत्रमैत्रादिद्रव्यम् / असमवायिकारणं दिक्कालसंयोगः, निमित्तकारणमपेक्षाबुद्धिरित्यर्थः / "कर्मणेति पिण्डावयवकर्मणा। "पिण्डेपि कर्मेति .. मर -+-निमित्तानां-जे. व्यो (520) दे। 2 तदा पिण्डावयवे कर्म- कं. 1, कं. 2; पिण्डावयके कर्म-कि / 3 काले-- ऽवयवान्तराद्-जे. दे. व्यो (520) / 4 क्रियतेऽपेक्षाबद्धेः-कं. 1, कं. 2 / 5 ततो विभागात-दे। 6 तदाकं.१, कं. 2 / 7 यस्मिन्नेव-कं. 1, कं.२। 8 परत्वसामान्यबुद्धि-कं. 1; कं.२। 9 बुद्धितो-कं. 1, कं.२, / 1. कारणानां विनाशादपि-कं. 1, कं.२। 11 तान्येव-जे. 1, जे. 3 / 12 प्रत्युत्तर-कं. 1, कं. 2 / 13 [ ] एतच्चिह्नान्तर्गतः पाठः कं. 1, कं. 2 पुस्तकयो स्ति /