________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपैतम् प्रशस्तपादभाष्यम् [152] द्रव्यापेक्षाबुद्धयोर्युगपद्विनाशादपि कथम् ? यदा परत्वाधारावयवे कर्मोत्पद्यते तदेवापेक्षाबुद्धिरुत्पद्यते कर्मणा चावयवान्तराद्विभागः क्रियते, परत्वस्योत्पत्तिरित्येकः कालः / ततो यस्मिन्नेव कालेऽवयव विभागाद् द्रव्यारम्भकसंयोगविनाशस्तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते तदनन्तरं संयोगविनाशाद् द्रव्यविनाशः, सामान्यबुद्धेश्चापेक्षाबुद्धिविनाश इत्येकः कालः / ततो द्रव्यापेक्षा'बुद्धयोविनाशात् परत्वस्य विनाशः / ___न्यायकन्दली द्रव्यविनाशादपि कथं विनाश इत्याह-परत्वाधारावयव इति / भविष्यतः परत्वस्याधारो द्रव्यम्, तस्यावयवे कर्मोत्पन्नं यदाऽवयवान्तराद्विभागं करोति, तस्मिन्नेव कालेऽपेक्षाबुद्धिरुत्पद्यते, ततो विभागाद्यस्मिन्नेव काले द्रव्यारम्भकसंयोगविनाशः तस्मिन्नेव कालेऽपेक्षाबुद्धेः परत्वमुत्पद्यते / ततः संयोगविनाशाद् द्रव्यविनाशः / ततो द्रव्यविनाशात् तदाश्रितस्य गुणस्य विनाशः। तदानीमेव परत्वसामान्यज्ञानादपेक्षाबुद्धेविनाशः, आश्रयविनाशाच्च दिपिण्डसंयोगविनाश इत्यनयोर्न हेतुत्वं सहभावित्वात् / [152] द्रव्यापेक्षाबुद्धयोर्युगपद्विनाशादपि कथम् / यदैव परत्वाधारावयवे कर्मोत्पद्यते तदेवापेक्षाबुद्धिरुत्पद्यते, कर्मणा चावयवान्तराद्विभागः क्रियते, परत्वस्योत्पत्तिरित्येकः कालः / ततो 'यस्मिन् कालेऽवयव विभागाद् द्रव्यारम्भकसंयोगविनाशः, तस्मिन्नेव काले परत्वसामान्यज्ञानमुत्पद्यते / तदनन्तरं संयोगविनाशाद् द्रव्यविनाशः, सामान्यबुद्धेश्चापेक्षाबुद्धेरपि विनाश इत्येकः कालः / ततो द्रव्यापेक्षाबुद्धयोविनाशात् परत्वस्य विनाशः, प्रत्येकमन्यत्रोभयोरपि विनाशं प्रति कारणत्वप्रतीतेः / इह चान्यतरविशेषानवधारणादुभयोरपि विनाशं प्रति कारणत्वम् / [प०] [152] परत्वाधारावयवे इति (कं. 170.10) परत्वस्याधारो द्वितन्तुकादिस्तस्याधयवो। विनाशं प्रति कारणत्वप्रतीतेरिति (कं. 170.16) अत्र 'विनाशम्' इति परत्वविनाशम् / [कु.] विद्याविधे यस्य सेवामसेवा चानुस्यातां जन्मभाजक्रमेण। तस्मै श्लाघे नित्यविद्याविलास - . 'श्री सोमैणां कावतंसावधाम्ने / ...1 काले विभागाद् -जे. व्यो (519) दे। 2 बुद्धिविनाशात् -जे. दे। 3 यस्मिन्नेव काले - कं 1, कं. 2 / 14 इदं कर्तुर्गरो म ?-सं..:.. .