________________ 398 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् - प्रशस्तपादभाष्यम् संयोगविनाशादपि कथम् ? अपेक्षाबुद्धिसमकालमेव परत्वाधारे कर्मोत्पद्यते / तेन कर्मणा दिपिण्डविभागः क्रियते / 'अपेक्षाबुद्धितः परत्वस्योत्पत्तिरित्येकः कालः / ततः सामान्यबद्धरुत्पत्तिः, दिपिण्डसंयोगस्य च विनाशः, ततो यस्मिन् काले 'परत्वगुणबुद्धिरुत्पद्यते तस्मिन्नेव काले दिपिण्ड'संयोगविनाशाद गुणस्य विनाशः। द्रव्यविनाशादपि कथम् ? परत्वाधारावयवे कर्मोत्पन्नं 'यस्मिन् कालेऽवयवान्तराद्विभागं करोति तस्मिन्नेव कालेऽपेक्षाबुद्धिरुत्पद्यते, 'ततो विभागाद्यस्मिन्नेव काले संयोगविनाशः, तस्मिन्नेव काले परत्वमुत्पद्यते, ततः संयोगविनाशाद् 'द्रव्यविनाशः, 'द्रव्यनाशाच्च तदाश्रितस्य गुणस्य विनाशः / ... ... न्यायकन्दली मानतेत्येकः कालः। अपेक्षाबुद्धिविनाशो गणविनाशस्य कारणम्, गणबुद्धिश्च द्रव्यबुद्धः कारणम्, अपेक्षाबुद्धिविनाशगुणबुद्धयुत्पादौ च युगपत् स्याताम्, अतो गुणस्य विनश्यत्ता द्रव्यबुद्धश्चोत्पद्यमानतापि युगपत् स्यात् / ततः परत्वविशिष्टद्रव्यबुद्धरुत्पादः परत्वगुणस्य च विनाशः। __ संयोगविनाशादपि कथं परत्वापरत्वयोविनाश इति प्रश्ने कृते सत्याहअपेक्षाबुद्धिसमकालमेव परत्वस्याधारे पिण्डे कर्मोत्पद्यते, क्षणान्तरे तेन कर्मणा दिशः : 'परत्वाधारस्य च पिण्डस्य विभागः क्रियते, अपेक्षा बुद्धेश्च परत्वस्योत्पत्तिरित्येकः कालः। तत उत्पन्ने परत्वे परत्वसामान्यबद्धरुत्पतिः दिक्पिण्डसंयोगस्य च विभागाद्विनाश इत्येकः कालः / ततो "यस्मिन् काले सामान्यज्ञानाद् गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले दिपिण्डसंयोगविनाशात् परत्वस्य विनाशो नापेक्षाबुद्धिविनाशात्, अपेक्षाबुद्धरपि तदानीमेव विनाशात् / [पं०] भविष्यतः परत्वस्याधारो द्रव्यमिति (कं. 170.4 ) द्वितन्तुकलक्षणम् / ततः संयोगविनाशाम्यविनाश इति (कं. 170.7) अतः पुरः सामान्यबुद्धेश्चोत्पत्तिरिति शेषः / तदाश्रितस्य [गु]णस्येति ( कं. 170.8) परत्वस्य / तदानीमेवेति (कं. 170.8) गुणविनाशसमकालम् / परत्वसामान्यज्ञानावपेक्षाबु विनाश इति (कं. 170.8) नित्यत्वात्सामान्यस्य / अनयोन हेतुत्वं सहभावित्वादिति (कं. 170.9) अनयोरपेक्षावृद्धिसंयोगविनाशयोः परत्वविनाशं प्रति न हेतृत्वं सहभावित्वात् / तहि कस्य हेतुत्वम् ? द्रव्य विनाशस्येवेति परमार्थः। . .... 1 'अपेक्षाबुद्धितः' इति-जे. व्यो. (518) दे पुस्तकेषु नास्ति / 2 गुणबुद्धि-कं. 1, कं. 2, कि। 3 संयोगस्य -जे. (व्यो. 518) / 4 यस्मिन्नेव-कं. 1, कं. 2 कि। 5 विभागाद्-जे. व्यो. (518) दे। 6 द्रव्यविनाशः सामान्यबद्धरुत्पत्तिः जे. (व्या. 519) दे। 7 तद्विनाशाच्च -कं. 1, कं. 2, कि। 8 परत्वाधारपिण्डस्य च -कं. 1, कं. 2 / 9 बुद्धिस्तु-जे. 1 / 10 यस्मिन्नेव --क...१, कं. 2 / .. .... ..