SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [151] कालकृतयोरपि कथम् ? वर्तमानकालयोरनियतदिग्देशसंयुक्तयोर्युस्थविरयो रूढश्मश्रुकार्कश्यवलिपलितादिसान्निध्ये सत्येकस्य द्रष्टुयुवाममधिं कृत्वा स्थविरे विप्रकृष्टा बुद्धि रुत्पद्यते। ततस्तामपेक्ष्य परेण कालप्रदेशेन संयोगात् परत्वस्योत्पत्तिः, स्थविरं चावधि कृत्वा यूनि सनिकृष्टा बुद्धिरुत्पद्यते / ततस्तामपेक्ष्यापरेण कालप्रदेशेन संयोगादपरत्वस्योत्पत्तिरिति / न्यायकन्दली [151] कालकृतयोरपि कथम् ? दिक्कृतयोस्तावत्परत्वापरत्वयोरुत्पत्तिः कथिता, कालकृतयोरपि तयोरुत्पत्तिः कथमिति प्रश्नः / समाधानं वर्तमानकालयोरिति / द्वयोरेकस्मिन् वा पिण्डेऽविद्यमाने परत्वापरत्वे न भवतः, तदर्थ वर्तमानकालयोरित्युक्तम् / अनियतदिग्देशयोरित्येकदिश्यवस्थितयो'अन्यदिगवस्थितयोर्वा यवस्थविरयो रूढश्मश्र च वलिश्च पलितं च तेषां कालविप्रकर्षलिङ्गानां सान्निध्ये सत्येकस्य द्रष्टुयुवानं रूढश्मश्रुकार्कश्याद्यभावानुमितमल्पोत्पत्तिकालमधिं कृत्वा रूढश्मवलिपलितादिमति स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते, 'तामपेक्ष्य परेणादित्यपरिवर्तनभूयस्त्ववता कालप्रदेशेन संयोगादसमवायिकारणात् तस्मिन्नेव स्थविरे परत्वस्योत्पतिः, स्थविरं चावधिं कृत्वा यूनि सनिकृष्टा बुद्धिरुत्पद्यते, तां बुद्धिमपेक्ष्यापरेणाल्पावित्यपरिवर्तनोपलक्षितेन कालप्रदेशेन संयोगादपरत्वस्योत्पत्तिः। युवस्थविरशरीरयोः कालसंयोगाल्पीयस्त्वभूयस्त्वे शरीरसन्तानापेक्षया, न तु व्यक्तिविषयत्वेन, तयोः प्रतिक्षणं विनाशात् / / [पं०] [151] योरिति (कं. 168.23) द्वयोः पिण्डयोरविद्यमानयोरित्यर्थः / 'व्यक्तिविषयत्वेनेति (कं. 1695). न पुनः प्रतिक्षणोत्पद्यमानशरीरव्यक्तिविषयत्वेनेत्यर्थः / तयोः प्रतिक्षणं विनाशाविति (कं. 169.5) सर्वव्यक्तिषु नियतं क्षणेऽन्यत्वमिति वचनात् / [कु०] [151 to 153) अपेक्षाबुद्धेरपि तदानीमेव विनाशादिति (कं. 170.3) यत् परं तद्विप्रकृष्टं (तदु) यदपरं तत्सन्निकृष्टमिति व्याप्तेापकनिवृत्तौ च व्याप्यनिवृत्ताववश्यंभावित्वादपेक्षाबुद्धिविनाशस्य च पूर्वकालभावित्वविरहात संयोगविनाशस्यैव परत्वविनाशकारणत्वमेषितव्यमिति भावः। तदेतं समवाय्यसमवायिनिमित्तविनाशानां प्रत्येकं परत्वं चिन्तितम्। द्वयोयोस्त्रयाणां च समुच्चयस्य परत्वविनाशकारणप्रक्रियातिरोहितार्थः / [इति परत्वापरत्वनिरूपणम् ] 1 भिन्न-कं. 1; कं. 2 / 2 नुमिताल्पोत्पत्तिका -जे. 1, जे. 2, जे. 3 / 3 तां बुद्धिमपेक्ष्य - कं. 1, कं. 2 / 4 ननु व्यक्ति०-ब।
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy