________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् . न्यायकन्दली तेनापि सममपरस्येति संयुक्तसंयोगानां बहुत्वे अल्पत्वे च 'सत्यल्पसंयोगवन्तं पिण्डं सनिकृष्टमवधि कृत्वैतस्मात् पिण्डाद्विप्रकृष्टोऽयमिति संयोगभूयस्त्ववति भविष्यतः परत्वस्याधारे पिण्डे विप्रकृष्टा बुद्धिरुदेति / ततो विप्रकृष्टबुद्धयुत्पत्त्य'नन्तरं तां विप्रकृष्टां बुद्धिमपेक्ष्य परेण संयोगभूयस्त्ववता दिकप्रदेशेन संयोगादसमवायिकारणाद्विप्रकृष्ट पिण्डे समवायिकारणभूते परत्वस्योत्पत्तिः। द्रष्टुः स्वशरीरापेक्षया संयुक्तसंयोगभूयस्त्ववन्तं विप्रकृष्टं चावधि कृत्वेतरस्भिन संयुक्तसंयोगाल्पीयस्त्ववति सन्निकृष्टा बुद्धिरुदेति / 'तां सनिकृष्टां बुद्धि निमित्तकारणीकृत्यापरेण संयुक्तसंयोगाल्पीयस्त्वविशिष्टेन दिकप्रदेशेन सह संयोगादसमवायिकारणात् सनिकृष्टे पिण्डे समवायिकारणे परत्वस्योत्पत्तिः। __सनिकृष्टविप्रकृष्टबुद्धयोः 'परस्परापेक्षत्वादुभयाभावप्रसङ्ग इति चेत् ? न, अनभ्युपगमात् / न सन्निकृष्टोऽयमित्येवं 'प्रतीत्यैव तदपेक्षया विप्रकृष्टबुद्धिः, नापि विप्रकृष्टोऽयमिति प्रतीत्येव तदपेक्षया सनिकृष्टबुद्धयुदयः, किन्तु संयोगाल्पीयस्त्वसहचरितं पिण्ड प्रतीत्यैव तदपेक्षया संयोगभूयस्त्ववति विप्रकृष्टबुद्धिः / एवं संयोगभूयस्त्वसहचरितं पिण्डं प्रतीत्येव तदपेक्षया संयोगाल्पीयस्त्ववति सन्निकृष्टबुद्धयुत्पत्तिरिति न 'परस्परापेक्षत्वमनयोः। [टि.] रूढस्यावधित्वं तत्रापि स्मृतेर्वर्तमानत्वात्तदारुढस्यापि “वर्तमानत्वादिति / तयोः 'प्रतिक्षणेति तयोः युवस्थविरदेहयोः "प्रतिदिनं "विनाशित्वादिति भावः / अपेक्षाबुद्धिसमकालमेव इति:-अत्रापि भविष्यत्परत्वाधारेत्यर्थः / तदानीमेव सामान्यबुद्धेः इति / सामान्यबुद्धेः सकाशात् तस्यापेक्षाबुद्धिविनाशस्य // "परत्वापरत्वे // [पं०] "विप्रकृष्टं पिण्डं चावधि कृत्वेति (कं. 168.12) चकारो व्यवहितक्रमः / प्रकृष्टं च पिण्डमवधिं कृत्वेत्यर्थः / - परस्परापेक्षित्वादिति (कं. 168.15) इतरे(तरा)श्रयदोषादित्यर्थः / तदपेक्षयेति (कं. 168.16) पिण्डापेक्षया। [कु०] अनभ्युपगमादिति (कं. 168.16) सन्निकृष्टविप्रकृष्टबुद्धयोः कदाचित्कस्यचिदुत्पत्तेर्न परस्पराश्रयदोषः इति भावः। द्वयोरेकस्मिन् वेति (कं. 168.23) न ह्यसतः समवायित्वमवधित्वं च सम्भवतीति भावः। .. तत इति पञ्चम्यर्थग्रहणे परत्वसामान्यबुद्धेहेतुता प्रतीयते / न च विनाशकारणसन्निधिव्यतिरेके नान्यविनश्यता ततश्चात्माश्रयदोष इत्यत आह तत इति (कं. 169.11) / सप्तम्यर्थ (कं. 169.11) इति / 1 सत्यल्पपिण्ड - जे. 1; बहुत्वे सत्यल्पसंयोग-कं. 1, कं. 2 / 2 विप्रकृष्टां बुद्धि-कं. 1, कं. 2 / 3 तदा तां -जे.१। 4 परस्परापेक्षित्व-कं. 1, कं. 2 / 5 प्रतीत्य-जे.१।६ परस्परापेक्षित्व - कं. 1; कं. 2 / 7 वधित्वं तत्त्वातत्रापि-अ 8 वर्तमानत्वादवधित्वं स्पष्टमित्यर्थः। 9 प्रतिक्षणं मु. -जे. 1; जे. 3; .10 प्रतिदिन-ब, क; 11 विनाशत्वा-अ, ब, क; 12 परत्वे - अ; 13 विप्रकृष्टं चावधिं कृत्वा-कं /