________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् तत्र दिक्कृतस्योत्पत्तिरभिधीयते। कथम् ? एकस्यां दिश्यवस्थितयोः पिण्डयोः संयुक्तसंयोगबह्वल्पभावे सत्येकस्य द्रष्टुः सन्निकृष्टमवधि कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परत्वा'धारेऽसन्निकृष्टा बुद्धिरुत्पद्यते। ततस्तामपेक्ष्य परेण दिकप्रदेशेन 'संयोगात् परत्वयोत्पत्तिः। 'विप्रकृष्टं चावधि कृत्वा इतरस्मिन् सन्निकृष्टा बुद्धिरुत्पद्यते / 'ततस्तामपेक्ष्यापरेण दिकप्रदेशेन संयोगादपरत्वस्योत्पत्तिः। न्यायकन्दली कार्यभेदादित्याह-दिक्कृतं दिग्विशेषप्रत्यायकं कालकृतं तु दयोभेदप्रत्यायकम् / दिक्कृतं परत्वं देशविप्रकृष्टत्वं 'प्रत्याययतीति, अपरत्वं च देशसन्निकृष्टत्वम् / कालकृतं तु परत्वं पिण्डस्य कालविप्रकृष्टत्वं प्रतिपादयति, अपरत्वं च कालसन्निकृष्टत्वमिति विशेषः। . तत्र तयोदिक्कृतकालकृतयोर्मध्ये दिक्कृतस्योत्पत्तिरभिधीयते / कथमिति प्रश्ने सत्युत्तरमाह- एकस्यामिति / पूर्वापर दिश्यवस्थितयोः पिण्डयोः परापरप्रत्ययौ न सम्भवतः, तदर्थमेकस्यां दिश्यवस्थितयोरित्युक्तम् / एकस्यां दिशि प्राच्या वा प्रतीच्या वाऽवस्थितयोः पिण्डयोर्मध्ये एकस्य द्रष्टुः संयुक्तेन भूदेशेन सहापरस्य प्रदेशस्य संयोगः, [पं०] कारणम् / यद्यप्यात्ममनःसंयोगादिकं च परापर"प्रतीतिकारणं स्यादिति (क. 167.16) प्रत्ययस्य समवायि. कारणमात्मा, आत्ममनःसंयोगाः [अ] समवायिकारणम् / निमित्तान्तरसिद्धिरिति (कं. 167.17) निमित्तान्तर च परत्वापरत्वलक्षणम् / एकत्रेति (कं. 167.18) एकस्मिन् प्रकरणे / द्वयोरिति (कं. 167.18) परत्वापरत्वगुणयोः / कि०] साम्येऽपि समवायिकारणनियमः कारणनियमः, कारणस्वभावात् / यथा मन:संयोगजापि बुद्धिरात्मन्येव न मनसि / परत्वापरत्वयोदिक्कालस्वरूपप्रत्यायकत्वं दिक्कालप्रकरण एवोक्तम् / इह तु आश्रययोर्देशावस्थाविशेष. प्रत्ययत्वमभिप्रेतमिति व्याचष्टे दिक्कृतं परत्वमिति (कं. 167.23) / प्रश्न इति (कं. 168.3) / मूर्तगुणौ परत्वापरत्वे दिश: कारणत्वं जिज्ञासमानस्येति शेषः / प्रत्युत्तरमिति (कं. 168.3) विदिताभिसन्धेरिति शेषः। संयोगावसमवायिकारणादिति (कं. 168.4) अग्न्य (न्य) गुणयोरपि परत्वापरत्वयोरसमवायिकारणसंयोगाधारतया उपाध्यवच्छिन्ना दिगपि कारणमित्यर्थः। 1 परत्वाधारे बुद्धिरुत्पद्यते -जे. व्यो. (515) / 2 तामपेक्ष्य- जे. व्यो. (515) / 3 योगात्-जे. पुस्तके सर्वत्र संयोगात् इत्यस्य स्थाने दृश्यते। 4 तथा विप्रकृष्टं-कं. 1, कं.२ 5 कृत्वा इत्यनन्तरं 'एतस्मात्सन्निकृष्टोयमित्यपरत्वाधारे' इत्यधिक-कं.१, कं. 2, कि. पुस्तकेषु / 6 तामपेक्ष्य-जे.। .7 प्रत्याययति-कं. 1, कं.२। 8 दिगवस्थितयो:-जे. 1; दिग्व्यवस्थितयोः - कं. 1, कं. 2 / 9 भवतः-जे. 1, जे. 2 / 10 प्रतीतिकारणं अपुस्तके भ्रष्टमिव भाति /