________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 393 प्रशस्तपादभाष्यम् [150] परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तम् / तद् द्विविधं दिक्कृतं कालकृतं च / तत्र दिक्कृतं दिग्विशेषप्रत्यायकम् कालकृतं 'च वयोभेदप्रत्यायकम् / न्यायकन्दली [150) परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तमिति। परमित्यभिधानस्य प्रत्ययस्य च निमित्तं परत्वम् / अपरमित्यभिधानप्रत्यययोनिमित्तमपरत्वमिति कार्येण सत्तां प्रतिपादयति / यद्यप्याकाशं कण्ठाद्याकाशसंयोगादिकं च परापराभिधानयोः कारणं भवति, यद्यप्यात्ममनःसंयोगादिकं च परापरप्रतीतिकारणं स्यात्, तथापि निमित्तान्तरसिद्धिः, विशिष्टप्रत्ययस्य असाधारण कारणमन्तरेणोत्पत्त्यभावात् / एकत्र द्वयोरुपन्यासस्तयोस्तिरेतरसापेक्षत्वात् / . - 'तद् द्विविधम्' 'तत्' परत्वमपरत्वं च 'द्विविधम्' द्विप्रकारमिति भेदनिरूपणम् / किंकृतस्तयोर्भेद इत्याशङ्कय कारणभेदाङ्दमाह-दिक्कृतं कालकृतं चेति / दिक्पिण्डसंयोगकृतं दिक्कृतम् / कालपिण्डसंयोगकृतं कालकृतम् / अनयोर्भेदः कुतः प्रत्येतव्यः ? [टि०] . . ( // अथ परत्वापरत्वनिरूपणम् / / ) [150 to 153] विशिष्टप्रत्ययस्य इति :-एतेन विशेषणं सत् परापराभिधानप्रत्ययनिमित्तमिति सूचितम् / दिक् प्रदेशस्य परत्वं नास्तीत्याह 'संयोगभूयस्त्ववता इति / वर्तमानकालयोः इति :- यत्र त्वतीतस्यापि स्मरणा [पं०] [150] अथ परत्वापरत्वयोर्गुणयोविवरणं प्रस्तूयते परत्वमपरत्वं चेत्यादि (कं. 167.13) / अभिधानस्येति (कं. 167.13) व्यपदेशस्य / ____ आकाशमिति (कं. 167.15) समवायिकारणम् / कण्ठाद्याकाशसंयोगाविकमिति (कं. 167.15) असमवायि [कु०] [150] साधारणनिमित्तत्वेन सिद्धसाधनमाशङ्कय परिहरति यधपोति (कं. 167.15) / न च संयुक्तसयोगाल्पीयस्त्वभूयस्त्वाभ्यां सिद्धसाधनम्, परत्वाधारापेक्षया संयोगभूयस्त्वाल्पत्ववत्यपि प्रमातरि परापरप्रत्ययोरनुत्पादात्, इतरेतराश्रयमवधिमपेक्ष्योत्पत्तेरिति भावः / दिक्कालयो: सर्वोत्पत्तिमनिमित्तकारणतया कथमेतयोरयं विशेष इत्यत आह दिपिण्डेति (कं. 167.20) / असमवायिकारणाधारकृतो विशेष इत्यर्थः / असमवायिकारणाधारस्व१ तत्तु - क. 1; कं. 2, कि / 2 देशविशेष - जे; व्यो. (515) दे। 3 तु-दे। 4 कारणविशेष-कं. 1 कं. 2 / 5 संयोगभूयस्त्ववति - ड; . 50