________________ 392 न्यायकन्दलीसंवलितप्रशस्तरादभाष्यम् प्रशस्तपादभाष्यम् तन्तुबीरणयोर्वा संयोगे सति द्रव्यानुत्पतौ पूर्वोक्तेन विधानेनाश्रयविनाशसंयोगाभ्यां तन्तुबीरणविभागविनाश इति / - न्यायकन्दली यवान्तरविभागसमकालमाकाशादिदेशेन समं विभागं न 'करोतीति, आकाशादिविभागकर्तृत्वस्य द्रव्यारम्भकसंयोगविरोधिविभागोत्पादकत्वस्य च विरोधात् / अनारम्भके तु घणुकसंयोगिनि परमाणौ कर्म द्वयणुकविभागसमकालं तस्याकाशदेशेन समं विभागं करोत्येव, ततो विभागाच्च परमाणोराकाशसंयोगनिवृत्तावृत्तरसंयोगे सति तदाश्रितस्य कर्मणो विनाशो भवत्येव / समानजातीयसंयोगे सति द्रव्योत्पत्तावाश्रयविनाशाद्विभागकर्मणोविनाशः कथितः, / सम्प्रति विजातीयसंयोगे द्रव्यानुत्पत्तौ संयोगाश्रयविनाशाभ्यां विभागविनाशं कथयतितन्तुवीरणयोर्वा संयोगे सति द्रव्यानुत्पत्तौ पूर्वोक्तेन विधानेनेति / 'तन्त्वारम्भकांशी कर्मोत्पत्तिसमकालं वोरणेऽपि कर्म, ततोऽशुक्रियया अंश्वन्तराद्विभागो वीरणकर्मणा च तस्य विभज्यमानावयवेन तन्तुना आकाशदेशेन च समं विभागः क्रियते, ततोऽशुविभागादंशसंयोगविनाशो वीरणविभागाच्च तन्तुवीरणसंयोगस्याकाशवीरणसंयोगस्य च विनाशः, ततोऽशुसंयोगविनाशात् तन्तुविनाशो वीरणस्य चोत्तर संयोगस्तत उत्तरसंयोगाश्रयविनाशाभ्यां तन्तुवीरणविभागस्य विनाश इति प्रक्रिया // , [पं०] (कं. 163.13) भाष्ये / भाष्ये प्रतिसमाधानं नोक्तम् / वृत्तिकारस्तु स्वयं कथयति कार्याविष्टे होत्यादिना .. (कं. 163.13) कार्याविष्ट इति (कं. 163.13) द्वयणकाविष्टे / कारणे इति (कं. 163.13) अणौ / अवयवान्तरविमागसमकालमिति (कं. 163.14) द्वितीयपरमाणुविभागसमकालम् / अनारम्भके इति (कं. 163.16) द्वितीयाणी / तस्येति (कं. 163.17) अनारम्भकस्य तृतीयपरमाणोः। परमाणोरिति (कं. 163.17) अनारम्भकस्य / तस्येति (कं. 163.23) अंशोः / उत्तरसंयोग इति (कं. 164.1) उत्तराकाशसंयोगः / उत्तरसंयोगामयविनाशाभ्यामिति (कं. 164.1) उत्तरसंयोगतन्तुविनाशाभ्यामित्यर्थः। . // इति विभागगुणविवरणं समर्थितम् // [कु०] विभागकर्मणोयुगपद्विनाश इति (कं. 163.11) न च कर्मणोऽनुपभोग्यत्वदोषः, तदुत्पादनशक्ते शम्यवोपभोगत्वात् समं विभागः क्रियते इति उभयोरपि द्रव्यारम्भकसंयोगाप्रतिद्वंद्वित्वादित्यर्थः। तन्तुसंयोगे विनाशः तन्वारम्भकसंयोगविनाश इत्यर्थः / [ इति विभागः ] १करोति आकाशा-कं. 1, कं.२। 2 सति पूर्वोक्तेन-जे. 1, जे. 2, जे. 3 / 3 तन्त्वारम्भकांशी-कं. 1, कं. 2 / 4 बीरणं कर्म-कं. 1, कं. 2 / 5 संयोगोऽत-कं. 1, कं. 2; तत आश्रयविनाशसंयोगाभ्याम् - कं.१; उत्तरसंयोगाश्रयविनाशाभ्याम् - जे. 3 /