________________ टिप्पणपत्रिकाकुसुमोद्गमादिटीकात्रयोपेतम् 391 प्रशस्तपादभाष्यम् अथवा अंश्वन्तरविभागोत्पत्तिसमकालं 'तस्मिन्नेव तन्तौ कर्मोत्पद्यते, ततोऽश्वन्तरविभागात् तन्त्वारम्भकसंयोगविनाशः, तन्तुकर्मणा 'च तन्त्वन्तराद्विभागः क्रियते इत्येकः कालः / ततः संयोगविनाशात् तन्तुविनाशः, तद्विनाशाच्च तदाश्रितयोविभागकर्मणोयुगपति'नाशः। न्यायकन्दली विभागात् तन्त्वाकाशविभाग इत्युदाहरणार्थः / हस्ताकाशविभागाच्छरीराकाशविभागो युक्तो न त्वङ्गल्याकाशविभागात्, अङ्गलेः शरीरं प्रत्यकारणत्वादिति चेत् ? हस्तोऽपि बाहोराश्रयो न शरीरस्य, कुतस्तद्विभागादपि शरीरविभागः / अथ समस्तावयवव्यापित्वाच्छरीरस्य हस्तोऽप्याश्रयः, एवमङगुल्यप्याश्रयो हस्ताङगुल्याद्यवयवसमुदाये शरीरप्रत्यभिज्ञानात् / तस्मिस्तन्त्वाकाशविभागे जाते पूर्वसंयोगस्य प्रतिबन्धकस्य निवृत्ती तन्तुसमवेतं कर्मोत्तरसंयोगं कृत्वा ततो विनश्यतीत्याह-तस्मिन्निति / प्रकारान्तरेणाप्याश्रयविनाशाद्विनाशं कथयति - अथवेति / अश्वन्तरविभागोत्पत्तिसमकालं तस्नेिव तन्तौ विभज्यमानावयवे कर्मोत्पद्यते, ततो विभागात् तन्त्वारम्भकस्याशुसंयोगस्य विनाशः, तन्तुकर्मणा च तस्य तन्तोस्तन्त्वन्तराद्विभाग इत्येकः कालः / ततस् तदनन्तरं संयोगस्य विनाशात् तदारग्धस्य तन्तोविनाशः, तद्विनाशाच्च तदाश्रितयोविभागकर्मणोर्युगपद्विनाशः / यच्च नित्यसमवेतस्य नित्यत्वमिति चोदितम्, तत्र प्रतिसमाधानं नोक्तम्, तस्यात्यन्तमसङ्गतार्थत्वात् / कार्याविष्टे हि कारणे कर्मोत्पन्नमव[पं०] व्योमंशिवाभिप्रायमाशङ्कमानः प्राह हस्ताकाशविभागादित्यादि (कं. 163.1) अङ्गुलेः शरीरं प्रत्यकारणत्वादिति (कं. 163.2) कारणविभागाद्धि कार्यविभागः, कारणमवयवाः, कार्यमवयवी / बाहोराश्रय इति (कं. 163.2) बाहोः कारणमित्यर्थः तद्विभागादपीति (कं. 163.3) हस्त विभागादपीति - हस्तविभागादपि / श्रीधरः प्राह एवमित्यादि (कं. 162.25) / तदनन्तरमिति (कं. 163.10) विभागानन्तरम् / 'संयोगविनाशादिति / अंशुसंयोगविनाशादिति ('अंशुसंयोगविनाशात्) तदारब्धस्य (कं. 163.11) अश्वारब्धस्य / तदाधितयोः (कं. 163.11) तन्त्वाश्रितयोः। नोक्तमिति - [कु०] आरभ्यारम्भकवादे अंशुतन्तुविभागस्य कारणविभागत्वात् / अमुल्याकाशविभागस्य कारणकारणविभागत्वादित्यत आह हस्ताकाशेति (कं. 163.1) / अङ्गीकुर्वन् परिहरति हस्तोऽपीति (कं. 163.2) / प्रमाणमाह हस्ताङ्गुलीति (कं. 163.4) / 1 तस्मिन्नेव काले-दे। 2 अंशुविभागात-व्यो.(५१०) जे। 3 च विभागः क्रियते-जे., दे। 4 विनाश इति-दे। 5 तद्विभागादपि शरीरविभागादपि-कं. 1, कं. 2 / 6 तदनन्तरं-कं. 1, कं. 2 / 7 हस्तविभागादपीति कन्दल्यां - नास्ति। 8 संयोगस्य-कं। 9 पुनरावृत्तं भाति-सं /