________________ म्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् . प्रशस्तपादभाष्यम् 'तन्त्वंश्वन्तरविभागाद्विभाग इत्यदोषः / आश्रयविनाशात्तन्त्वोरेव विभागो विनष्टो 'न तन्त्वंश्वन्तरविभाग इति / एतस्मादुत्तरो विभागो 'जायते, अङ्गल्याकाशविभागाच्छरीराकाशविभागवत्, 'तस्मिन्नु कर्म संयोगं कृत्वा विनश्यतीत्यदोषः / न्यायकन्दली तस्मिन् द्वयणुके विनष्टे तदाश्रितस्य द्वयणुकाणुविभागस्य विनाशः, ततो विभागस्य कारणस्याभावात् 'परमाणोराकाशदेशविभागानुत्पादे पूर्वसंयोगानिवृत्तावुत्तरसंयोगस्य विरोधिगुणस्य विनाशहेतोरसम्भवान्नित्यपरमाणुसमवेतस्य कर्मणो नित्यत्वं स्यात् / / पूर्वोक्तं तावत्परिहरति-तन्त्वंश्वन्तरविभागाद्विभाग इत्यवोषः। कार्याविष्ट कारणे कर्मोत्पन्नमवयवान्तरेण समं 'स्वाश्रयस्य विभागं कुर्वदाकाशादिदेशाद्विभागं न करोतीति नियमः, आकाशादिदेशविभागकर्तृत्वस्य विशिष्ट विभागानारम्भकत्वेन व्याप्तत्वात् / अवयवान्तरस्यावयवेन स्वाश्रयसंयोगिना समं तु करोत्येव, विरोधाभावात् / अतो द्वितन्तुककारणे तन्तौ कर्मोत्पन्नं तन्त्वन्तराद्विभागसमकालं तदंशुनापि तन्तुसंयुक्तेन समं विभागमारभते / स च विभागस्त'न्तोरंशोश्चावस्थानादवस्थित इत्याह-आश्रयविनाशात्तन्त्वोरेव विभागो विनष्टः, तन्त्वंश्वन्तरविभागस्त्ववस्थित इति / किमतो यद्येवमित्यत आह-एतस्मादिति / अङ्गल्याकाशविभागाच्छरीराकाशविभागवत् / यथा कर्मजादङ्गल्याकाशविभागाच्छरीराकाशविभागः, एवं कर्मजादंशुतन्तु [पं०] सत्कयोरण्वोः। 'संयोगस्येति (कं. 162) द्रव्यारम्भकस्य / परमाणुसंयोगविनाशादिति (कं. 162.12) परमाण्वोः संयोगविनाशादित्यथः / पूर्वोक्तमिति (कं. 162.16) कमणः कालान्तरावस्थायित्वदोषम् / परिहरतीति (कं. 162.16) भाष्यकारः / कार्याविष्ट इति (कं. 162.16) द्वितन्तुकपटाविष्टे / कारणे इति (कं. 162.17) तन्तौ / अवयवान्तरेणेति (कं. 162.17) द्वितीयतन्तुना / स्वाश्रयस्येति (कं. 162.17) तम्तोः / विशिष्टविभागानारम्भकत्वेनेति (कं. 162. 19) द्रव्यारम्भकसंयोगविनाशकविभागानारम्भकत्वेनेति / अवयवान्तरस्यावयवेनेति (कं. 162.20) द्वितीयतम्तोः सत्केनावयवेन अंशुना। स्वाश्रयसंयोगिनेति (कं. 162.20) विभज्यमानकर्माश्रयतन्तुसंयोगिनेत्यर्थः / करोत्येवेति (कं. 162.21) कर्मकर्तृभूतं विभागं करोत्येवेत्यर्थः / [कु०] नुपलम्भादिति / आरभ्यारभ्यकवादे यथा तन्त्वोः संयोग भारम्भकस्तथा तन्त्वंशुसंयोगोऽपि। ततश्च तत्तद्विभागोऽपि तन्तुविभागवद् द्रव्यारम्भकसंयोगप्रतिद्वन्द्वी भवत्येवेति भावः / ननु अङ्गुल्याकाशविभागादित्यादिदृष्टान्तो 1 तन्त्वन्तर-दे। 2 न तु-के। 3 सञ्जायते-जे. दे। 4 तस्मिन्नेव काले-कं.१, कं.२ कि। 5 परमाण्वो:-जे.१। 6 स्वाश्रयविभागं-जे. 2 / 7 तन्त्वंशोरवस्थानात-जे. 1, जे. 2, जे.३। 8 पूर्ववत-सं।