________________ टिप्पणपञ्जिकाकुसुमोड्गमाविटीकाश्योपेतम् .... प्रशस्तपादभाष्यम् कथम् ? यदाप्यद्वयणुकारम्भके परमाणौ कर्मोत्पन्नमण्वन्तराद् विभागं करोति, तदेवाण्वन्तरेऽपि कर्म / ततो यस्मिन्नेव काले विभागाद् द्रव्यारम्भकसंयोगविनाशः, तदै'वाण्वन्तरकर्मणा द्वयणकाण्वोविभागः 'क्रियते। ततो यस्मिन्नव काले विभागाद द्वयणुकाणुसंयोगस्य विनाशः, तस्मिन्नेव काले संयोगविनाशाद् 'यणुकस्य विनाशः / तस्मिन् विनष्टे तदाश्रितस्य द्वयणुकाणुविभागस्य विनाशः। ततश्च विरोधिगुणा'सम्भवान्नित्यद्रव्यसमवेतकर्मणो नित्यत्वमिति / न्यायकन्दली सक्रियस्य तन्तोः प्रदेशान्तरेण सह संयोगो न भवति, अतः कारणाद्विरोधिनो गुणस्योत्तरसंयोगस्याभावात् कर्मणः कालान्तरावस्थायित्वं स्यात्, यावदाभयविनाशो विनाशहेतुर्नोपनिपतति -नित्यद्रव्यसमवेतस्य च नित्यत्वमिति दोषः / कथमिति 'प्रश्नः / उत्तरमाह - यदेति / आप्यद्वयणुकस्यारम्भके परमाणौ कर्मोत्पन्नमण्वन्तराद्विभागं करोति यदा, तदैव द्वयणुकसंयोगिन्यनारम्भकपरमाण्वन्तरेऽपि कर्म / ततो "[यस्मिन्काले परमाण्वोविभागा द्रव्यारम्भकसंयोगस्य विनाशस्तदेवाणुकर्मणा द्वषणुकाण्वोविभागः। ततो यस्मिन्नेव काले द्वयणुकाण्वोविभागाद् द्वयणुकाण्वोः संयोगस्यविनाशः] तस्मिन्नेव काले परमाण्वोः संयोगविनाशात् तदारब्धस्य द्वयणुकस्य विनाशः, [टि०] वृक्षसंयोगेनेति / पुरुषस्य इति :- प्रदेशान्तरेण वृक्षप्रदेशव्यतिरिक्तेनाकाशकुड्यादिप्रदेशेनेत्यर्थः / नन्वेतदपि साध्यसमम् इति :- एतच्छब्दाभिधेयमेव दर्शयति संयोगमात्रेण विभागनिवृत्तिरिति // विभागः / / [पं०] उत्तरमाहेति (कं. 162.9) नित्यद्रव्यसमवेतस्य च कर्मणो नित्यत्वं प्रसज्यते इति पूर्वपक्षवादी स्वयमेव स्वोक्तं विवृणोतीत्यर्थः / अण्वन्तराद्विभागं करोति यदेति (कं. 162.10) अण्वन्तराद्विभागं कर्तुमारभते यदेत्यर्थः / अनारम्भकपरमाण्वन्तरे इति (कं. 162.11) तृतीयपरमाणौ। "परमाण्वोरिति (कं. 162) / "अणुकर्मणेति (कं. 162) ममारम्भकस्म तृतीयपरमाणोः कर्मणा / "घणुकाण्योविभाग इति (कं. 162) द्वयणुकाण्वोरवयविभूतयोविभागः कृत इत्यर्थः / अवयवविभागाद्धि अवयविविभाग इत्याशयः / "घणुकाण्वोरिति (कं. 162 ) घणुकावयवि[कु०] [149] "पर इति (कं. 162.2) कार्यकारणभावमसहमानो नास्तिक इत्यर्थः / सुगमे प्रक्रिये / न च कर्मान्तरजनितेन विभागेन प्रतिबन्धकसंयोगनिवृत्त्या परिहरणीयमेतत्, कर्मवति कर्मान्तरोत्पादविरोधा१यदा घणकारम्भके-जे.; -रम्भक-कं. 1, कं. 2 / 2 तत्रैव-दे। 3 अणुकर्मणा-जे. व्यो. (५०८);दे। 4 "क्रियते' इति 'जे' पुस्तके नास्ति / 5 घणुकसंयोगस्य-कि। 6 द्वयणुकविनाशः-दे। 7 सम्भवात्कर्मणोनित्यस्वमिति-जे. दे। 8 समवेतस्य नित्यत्वमिति-कं. 1, कं. 2 / 9 प्रश्ने-जे. 2 / 1. [ ] एतच्चिह्नान्तर्गतः पाठः कं. 1, कं. 2, पुस्तकयो स्ति। 11 पाठाऽयं-कं. 1, कं. 2 पुस्तके नास्ति-जे.१, जे. 2, जे. 3 इत्यत्रास्ति / 12 अयमपि तथा-सं। 13 अयमपि तथैव-सं। 14 11, 12, 13 पाठवत् अयमपि तथा-सं। 15 पुनः-कं /