________________ न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् [148] विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात्, उत्तर'संयोगावधिसद्भावात् क्षणिक इति / न तु संयोगवद्ययोरेव विभागस्तयोरेव संयोगाद्विनाशो भवति / 'कस्मात् ? संयुक्तप्रत्ययव'विभक्तप्रत्ययानुवृत्त्यभावात् / तस्मादुत्तरसंयोगावधिसद्भावात् 'क्षणिक इति / न्यायकन्दली [148] विनाशस्तु सर्वस्य विभागस्य, क्षणिकत्वात् / कर्मजस्य विभागजस्य च कारणवृत्तेः कारणाकारणवृत्तेश्च विभागस्य सर्वस्य क्षणिकत्वमाशुतरविनाशित्वं कुतः सिद्धमित्यत्राह -उत्तरसंयोगावधिसद्धावादिति / उत्तरसंयोगोऽवधिः सीमा, तस्य सद्भावात् क्षणिको विभागः। किमुक्तं स्यान्न विभागो निरवधिः, कि त्वस्योत्तरसंयोगोऽवधिरस्ति, उत्तरसंयोगश्चानन्तरमेव जायते, तस्मादाशुविनाश्यत्तरसंयोगो विभागस्यावधिरित्येतदेव कुतस्तत्राह-न तु संयोगवदिति / यथा संयोगः स्वाश्रययोरेव परस्परविभागाद्विनश्यति, नैवं विभागः स्वाश्रययोरेव परस्परसंयोगाद्विनश्यति, किं तु स्वाश्रयस्यान्येनापि संयोगात्। तथाहि वृक्षस्य मूले पुरुषेण विभाग'स्तयोरेव परपस्परसंयोगाद्विनश्यति, पुरुषस्य [टि०] [148-149] विनाशस्तु इति :- 'क्षणिकत्वादिति ज्ञापको हेतुर्न तु कारकः / यथा संयोग इति :'संयोगो हि द्वयोरेवामुल्योः परस्परविभागाद् विनश्यति न तु मिलितयोरेवामुल्योरन्यस्माद् वृक्षादेः सकाशाद् 'यो [पं०] [148] कर्मजस्येति (कं. 161.5) अन्यतरकर्मजोभयकर्मजयोः सङ्ग्रहः / कारणवृत्तेरिति (कं. 161.6) द्वितन्तुकपटसत्कस्य / कारणाकार रिति (कं. 161.6) हस्ताकाशसत्कस्य / स्वाश्रययोरेव परस्परसंयोगादिति (कं. 161.12) अत्र स्वाश्रययोरिति वृक्षपुरुषयोः। स्वाश्रयस्येति (161.12) पुरुषस्य / अन्येनापीति (कं. 161. 12) मूसम्यतिरिक्तसन्निहिततरप्रदेशान्तरेण आकाशकुड्यादिना गा। परपस्परसंयोगाद् विनश्यतीति (कं. 161.13) परस्परप्रदेशान्तरसंयोगादिति पाठान्तरम् / तत्र च श्री नरचनटिप्पनकन्याख्यानमनुरुध्यते / तदारम्भकस्येति [कु०] [148] कर्म यस्येति कर्मणोऽवान्तरभेदस्याविवक्षितत्वादेकविधम् / भाश्रयभेदादिपरत्रविध्यमाह कारणवृत्तरिति (कं. 161.6) न चतुर्विध एवेत्यनेन विरोधः, यत्राश्रय भेदस्यापि विवक्षितत्वात्कर्मभेदस्य च विवक्षितस्यात् / उत्पन्नस्य विभागस्य पूर्वसंयोगे विनष्टे उत्तरसंयोगेऽवधिः / एतावता विनाशस्याशुभावित्वं कुत इति शङ्का तात्पर्यप्रदर्शनेन निराकरोति किमुक्तमिति (कं. 161.7) / मस्तु येनकेनचित् संयोगो विनाशक: तस्यवानन्तरं जन्यं कुत 1 -सद्भावात् न संयोगवद् - थे. ज्यो.; न तु संयोगवद्ययोविभाग:-।। 2 कस्माद् इति जे पुस्तके मास्ति / 3 विभक्ता वृत्त्यप्रत्ययाभावात् -दे। 4 क्षणिक -जे. दे। 5 विभागजस्य च विभागस्य -जे. 3 / 6 तयोः परस्परं-के..कं. 2: तयोरेव परस्परं देशान्तरसंयोगाव-जे.२। 7 वक्षणिकत्वादिति-म.। 8 हि-अ, 4; 9 पोगविभक्त-म, ब, योगविभाग-43;