________________ टिप्पणपञ्जिफाकुसुमोद्गमाविटीकात्रयोपेतम् 385 प्रशस्तपादभाष्यम् स्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति, युतेष्वाश्रयेषु समवायोऽस्तीति परस्परेण संयोगः सिदः। अण्वाकाशयोस्त्वाश्रयान्तराभावेऽन्यतरस्य पृथग्गतिमत्त्वात् संयोगविभागो सिद्धौ / तन्तुपटयोरनित्ययोराश्रयान्तराभावात् परस्परतः संयोगविभागाभाव इति / 'दिगादीनां तु पृथग्गतिमत्त्वाभावादिति [परस्परेण संयोगविभागाभाव इति] / - न्यायकन्दली विभागौ सिद्धाविति / पूर्वमसत्यपि पृथग्गतिमत्त्वे त्वगिन्द्रियशरीरयोः पृथगाश्रयाश्रयित्वे सति 'संयोगविभागसंभवादनित्यानां 'पृथगाश्रयायित्वं युतसिद्धिर्न पृथग्गमनमित्युक्तम् / . सम्प्रत्येनमेवार्थ समर्थयितुं तन्तुपटयोरन्यतरस्य पृथग्ग'तिमत्त्वासंभवेऽपि पृथगाभयत्वाभावात् संयोगविभागाभावं दर्शयति-तन्तुपटयोरित्यादिना / विभूनां तु योरन्यतरस्य वा पृथग्गमनाभावान्न परस्परेण संयोगः, नापि विभागः, तस्य संयोगपूर्वकत्वात् / किं तु स्वरूपस्थितिमात्रमित्यहा-दिगादीनामिति / एतावता सन्दर्भणैतनुपपावितम्, हस्ते गच्छति शरीरं न गच्छतीति, एतावता न युतसिद्धिः / यदि तु हस्तशरीरयोः पृथगाभयाश्रयित्वं स्यात, तदा भवेदनयोर्युतसिद्धिः। तत्तु नास्ति, शरीरस्य हस्ते समवेतत्वात् / [पं० स्वाणुषु युतसिद्धिरुच्यते इत्यस्मात्पुर: 'तदा' इत्यध्याहार्यम् / परस्परसंयोग इति (कं. 160.19) युतसिलिण्याप्यः / तस्येति (कं. 160.18) संयोगस्य / आश्रयाभावादेवेति (कं. 160.1.) नहि नित्यानां स्वव्यतिरिक्तः विवाश्रयोऽस्ति / 'अन्येष्विति (कं. 160.20) परमाणुषु / आश्रयान्तसभावेऽपोति (कं. 160.22) नित्यत्वात् / अन्य[१] रस्पति (कं. 160.22) अणोः / पूर्वमसायपीत्यादि (कं. 160.23) 'पूर्वम् इत्युक्तमिति पदसंयोजना। आल्यातरस्वेति (कं. 160.26) तन्तोः / / * पृथग्गतिमत्वसम्भवेऽपीति (कं. 160.26) पृथग्गतिमत्वासम्भवेऽपीति च पाठः / [50] "पूर्य इति (कं. 160.23) पूर्वमन्वयोदाहरणमुक्तमिदानी व्यतिरेकोदाहरणमुच्यते इत्यर्थः / विभूनामिति (कं. 160.27) नित्ययुतसिद्धेव्यतिरेकोदाहरणमाहेत्यर्थः / [आ]स्तामेते युतसिद्धी प्रकृते किमायातमत आह एतावतेति (कं. 161.2) / १दिगादीनां पृथंग्गति -जे। 2 [ ] एतच्चिह्नान्तर्गतः पाठः जे. 2 पुस्तकयो स्ति। 3 संयोगसम्भवाद -..कं. 2 / 4 पृथगाश्रितत्वं-जे.२। 5 गतिमत्वासम्भवेऽपि-कं. 1, कं.२। भन्यतरपथगतिमत्वसामवेऽपि - जे. 2 / 6 पृथगाश्रयाश्रितत्वं-जे. 1, जे. 2 / 7 युतसिद्धता-कं. 1, कं. 2 / 8 नित्येषु-कं। 1 गई पूर्व -ब। 10 पूर्वम् -कं /