________________ 384 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अनित्यानां तु युतेष्वाश्रयेषु समवायो युतसिद्धिः / द्वयोरन्यतरस्य वा परस्परपरिहारेणान्यत्राश्रये समवायो युतसिद्धिरनित्यानां द्वयोः पृथगाश्रयाश्रयित्वं घटपटयोः / शकुन्याकाशयोश्चान्यतरस्य शकुनेः पृथगाश्रयायित्वम् / यद्यप्य'न्यतरस्य पृथग्गमममप्यस्ति, तथापि तस्य पृथग्ग'मनस्य न ग्रहणं तस्य नित्यविषयत्वेन व्याख्यानात् / अनित्यानामपि पृथग्गमनमेव युतसिद्धिः किं नोच्यते ? 'तत्राह-त्वगिन्द्रियशरीरयोः पृथग्गमनं नास्ति, युतेष्वाश्रयेषु समवायोऽस्तीति परस्परेण संयोगः सिद्धः। यदि त्वमित्यानामपि पृथग्गमनं युतसिद्धिरुच्यते, त्वगिन्द्रियशरीरयोः पृथग्गम नाभावादयुतसिद्धता स्यात् / 'ततश्च तयोः परस्परसंयोगो न 'प्राप्नोति, तस्य 'युतसिद्धव व्याप्तत्वात् / “[संयोगश्च तयोः सम्बन्धः न समवायस्तद्विलक्षणत्वात् तस्मावनित्यानां न पृथग्गमनं यतसिद्धिरित्यर्थः। आश्रयाभावादेव पृथगाश्रयाश्रयित्वं नित्येष नास्ति / तेषां च पृथग्गतिमत्त्वात् परस्परसंयोगविभागौ सिद्धौ, तेनैषां पृथग्गमनमेष युतसिद्धिरित्यभिप्रायेणाह-'भण्वाकाशयोस्त्वाश्रयान्तराभावेऽप्यन्यतरस्य पृथग्गतिमत्त्वात् संयोग [पं०] तौ न परस्परं किन्त्वन्येनेत्याशयः / अन्यतरस्येति (कं. 160.9) परमाणोरेव न त्वाकाशस्य, आकाशस्य व्या[प]कत्वेन पृथग्गमनासम्भवात् / द्वयोरन्यतरस्य वा परस्परपरिहारेणेत्यादि (कं. 160.11) अत्रापमाम्नाय अयुतसिद्धत्वं तु द्वयोर्यथा ज्ञानात्मनोघंटघटत्वयोर्वा / अन्यतरस्य यथा तन्तुपटान्तम् / पटो हि तन्तुष्वेव तन्तवस्तु पृथगपि स्युः / अन्यतरस्येति (कं. 160.13) शकुनेः / युतेष्वाश्रयेषु समवायोऽस्तीति (कं. 160.16) त्वगिन्द्रयं हि वायवीयं स्वागुसमवेतम् / शरीरं तु पार्थिवे [10] श्रयस्याश्रयान्तरे समवाय इति विवक्षितत्वान्न पटस्यावयवैः "सह[युत्ता सिद्धिसं [पो] गो तद्विलक्षणत्वादितिअवयवा[वयविसम्बन्धित्वादित्यर्थः / 1 अन्यतरस्य-शकुने:-टिप्पण-जे. 3 / 2 गमनस्य ग्रहणं-कं. 1, कं. 2 / 3 तदाह-कं. 1; कं. 2; भत्राह -जे. 1 / 4 गमनाभावादप्य-जे. 1; जे. 2 / 5 ततश्चैतयोः-कं.।। 6 प्राप्नोतीति-जे. 1, जे. 2, जे. 3 / 7 युतसिद्धिव्याप्तत्वात्-जे. 1, जे. 2, जे. 3 / 8 [ ] एतच्चिह्नान्तर्गतः पाठः कं. 1; कं. 2 पुस्तकयोास्ति / 9 मण्बाकाशयोराश्रया-जे. 1, जे. 2, जे.३। 1. अत्र न स्पष्टोऽर्थः-सं।