________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 383 प्रशस्तपादभाष्यम् [147] 'नन्वेवमवयवावयविनोयुतसिद्धिदोषप्रसङ्गः इति / न, युतसिद्धयपरिज्ञानात् / सा पुनद्वयोरन्यतरस्य वा पृथग्गतिमत्त्व मियन्तु नित्यानाम्, अनित्यानां तु 'युतेष्वाश्रयेषु समवायो युतसिद्धिरिति / __ न्यायकन्दली [147] नन्वेवं सत्यवयवावयविनोर्युतसिद्धिः, पृथसिद्धिः परस्परस्वातन्त्र्यं स्यात् / एतदुक्तम्भवति / यदि हस्ताश्रितं शरीरं तदा हस्ते गच्छति तदपि सहैव गच्छेत्, तथा सति च संयोगविभागक्रमो न स्यात्, क्रमेण चेदनयोः संयोगविभागौ न तदा हस्तस्य गमने शरीरस्य गमनमिति तस्य स्वातन्त्र्यप्रसक्तिः / परिहरति-नेति / युतसिद्धिप्रसङ्ग इति न, कुतः ? युतसिद्धेरपरिज्ञानात् / यादृशं यतसिद्धेर्लक्षणं तादशं त्वया न ज्ञातमित्यर्थः। कीदृशं तस्या लक्षणं तत्राह-सा पुनर्द्वयोरिति / द्वयोरेकस्य वा परस्परसंयोगविभागहेतुभतकर्म समवाययोग्यता युतसिद्धिः। द्वयोः परमाण्वोः पृथग्गमनमाकाशपरमाण्वोश्चान्यतरस्य पृथग्गमनमियं तु नित्यानाम् / तुशब्दोऽवधारणे, नित्यानामित्यस्मात्परो द्रष्टव्यः, नित्यानामेवेयं युतसिद्धिरित्यर्थः / [टि०] [147] ननु ययैव युक्त्या नित्यानित्ययोः पृथगाश्रयायित्वं युतासिद्धिराश्रीयते तयैव युक्त्या पथग्गमनरूपापि युतसिद्धिः प्रसज्यते / न च साऽभीष्टेति व्याख्यानमेव पुरस्कृत्याह यद्यप्यन्यतरस्य इति / [पं०] [147]. शरीरस्येति (कं. 159.26) बाह्वादेः / ____ एवं सतीति (कं. 160.1) संयोगविभागयोः समकालत्वाभावे सतीत्यर्थः / तदाहस्ते गच्छंति तदपि सहैव गच्छेदिति (कं. 160.3) यथा तन्त्वाश्रितः परस्तन्तुषु गच्छत्सु सहैव गच्छति अवयवाश्रितो ह्यवयवी / द्वयोरेकस्य वा परस्परसंयोगविभागहेतभूतकर्मसमवाययोग्यतायतसिद्धिरिति (कं. 160.7) न चात्र हस्तशरीरयोः योगविभागौ समवेतत्वात / अप्राप्तानां प्राप्तिहि संयोगस्तद्विपरीतश्च विभागः / यो चाऽनयोः संयोगविभागो [कु०] [147] यादशमिति (कं. 160.6) संयुक्तासंयुक्तत्वे च न परस्परसंयोगविभागयोग्यतामापादयता गुणगुण्यारिषु तथा निदर्शनादिति भावः / यथाश्रुतं भाष्यं परमाणुना सह [तद्वत्तीनां यदसिद्ध प्रतिपादयतीति तत्परिहारायोपस्कृत्य व्याचष्टे परस्परसंयोगविभागेति (कं. 160.7) / परस्परपरिहारेणान्यत्राश्रये (कं. 160.21) इति प्रतियोग्यता 1 नन्वेवं युतसिद्धि - जे. दे। 2 इति तु - जे; इतीयं - व्यो. (505) / 3 युतेषु तु समवायो-जे.। 4. हस्तगमने - कं. 1; कं.२। 5 सा द्वयोरिति-जे. 1; जे. 2; जे. 3 / 6 समवायः-कं. 1; कं. 2 / 7 य एव-अ, ब