________________ .382 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिः, कारणसंयोगानन्तरं कार्यसंयोगोत्पत्तिः / न्यायकन्दली विभागजविभागानन्तरभावित्वात् पूर्व 'प्रतिज्ञातस्य 'चिरोत्पन्नस्य च संयोगजसंयोगं प्रतिपादयति-तदनन्तमिति / तस्माद्विभागजविभागादनन्तरं शरीरकारणस्य हस्तस्याकारणानामाकाशादिदेशानां 'संयोगाः कर्मजाः हस्तकार्यस्य शरीरस्य निष्क्रियस्याकार्याणामाकाशादिदेशानां संयोगानारभन्ते न हस्तक्रिया, तस्याः स्वाश्रयस्य देशान्तरप्राप्तिहेतुत्वात् / इतिशब्दः प्रक्रमसमाप्तौ। अत्र चोदयति-यदीति / कारणस्य हस्तस्य विभागानन्तरं यदि कार्यस्य शरीरस्य विभागस्तथा कारणस्य संयोगानन्तरं कार्यस्य संयोगो न तत्समकालम् / [पं०] पूर्व प्रतिज्ञातमिति (कं. 159.20) संयोगस्तूत्पन्नमात्रस्य चिरोत्पन्नस्य वेत्यनेन संयोगनिरूपणे प्रतिज्ञातम् / चिरोत्पन्नस्येति ( कं. 159.21) शरीरावयविनः / न हस्तक्रियेति (कं. 159.24) हस्तक्रिया न आरभते इत्यर्थः / स्वाश्रयस्येति (कं. 159.24) हस्तस्य / स्वाश्रयस्येत्यस्मात्पुर एवेत्यध्याहार्यम् / ततश्च स्वाश्रयस्यैवेति सिद्धम् / तस्याः स्वाश्रयस्य देशान्तरप्राप्तिहेतुत्वादिति (कं. 159.24) अत्राऽयं वाक्यार्थः, क्रिया हि स्वाश्रयादन्यन्नदेशान्तरं प्रापयति ब्यधिकरणस्यासमवायिकारणत्वाभावात् / [कु०] बाधलक्षणमस्ति इत्यत आह यत्रापोति (कं. 159.17) / व्यापकमेव लक्षणं वक्तव्यमित्यर्थः / ज्ञानप्रतिबद्ध त्वादिति (कं. 159.18) ज्ञानस्य याथार्थ्यप्रतिबद्धत्वादित्यर्थः / विषयापहारः अयथार्थप्रत्यय एव। . संयोगजसंयोगव्युत्पादने उत्पन्नमात्रस्येति प्रतिज्ञाय उत्पन्नमात्रस्यैव पटस्य वीरणादिभिः संयोगः प्रतिपादितः / चिरोत्पन्नस्य त्विह विभागप्रकरणे प्रतिपादनं कुत इति शङ्कामपनयनन्नेव सङ्गति करोति विभागजविभागान्तरभावित्वादिति (कं. 159.20) / परस्परसंयोगविभागयोग्यत्वं ततश्च समवायो विरुद्ध इत्यर्थः / 1 प्रतिज्ञानं - कं. 1, कं. 2; पूर्व प्रतिज्ञानं - जे. 1; पूर्वप्रतिज्ञातस्य - संयोगप्रकरणे - टिप्पण - जे. 3 / 2 शरीरावयविनः - टिप्पण - जे. 3 / 3 संयोगात् कर्मजात् - कं. 1; कं. 2 /