________________ 38. न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली प्रत्यक्षादप्यनुमानं बलीया' इति वदन्तः / वह्नावष्णत्वग्राहिणः प्रत्यक्षस्य तु 'नान्यथोपपत्तिरस्तीति तेनावधारिते विषयस्य बाधे नास्त्यनुमानस्य प्रवृत्तिः / किमर्थं पुनर्ज्ञानयोबर्बाध्यबाधकभावः 'कल्प्यते, समाने विषये तयोविरोधात् / एकमेव तद्वस्तु किञ्चि'द्रजतमित्येवं नोधयति शुक्तिकेयमिति चापरम् / शुक्तिकात्वरजतत्वयोश्च नैकत्र संभवः, सर्वदा तयोः परस्परपरिहारेणावस्थानोपलम्भात् / अतो विषयविरोधात् तद्विज्ञानयोरपि विरोधे सति बाध्यबाधकभावकल्पनम् / ____ को बाधः ? विषयापहारः / ननु रजतज्ञानावभासितो 'धर्मी तावदुत्पन्नेऽपि ज्ञानान्तरे तदवस्थ एव प्रतिभाति, 'रजतत्वं तु नास्त्येव, किमपहियते ? सम्बन्धवियोजनस्यापहारार्थत्वात् / विज्ञाने प्रतिभातं तदिति चेत् ? सत्यं प्रतिभातं न तु प्रतिभातं शक्यापहारम्, भूतत्वादेव / नहि प्रतिभासितोऽर्थोऽप्रतिभासितो भवति, वस्तुवृत्त्या रजतमविद्यमानमपि ज्ञानेन तत्र विद्यमानवदुपदर्शितम्। तस्य ज्ञानप्रसञ्जितस्य [पं०] ननु यदि प्रत्यक्षादप्यनुमानं बलवदिति निश्चयः तर्हि अनुष्णाग्निः कृतकत्वाद् घटवदित्यनेनाप्यनुमानेन प्रत्यक्षं बाध्यतामित्यत्राह वह्नावृष्णत्वेत्यादि (कं. 158.24) अन्यथेति (कं. 158.25) उष्णत्वं विना / तेनेति (कं. 158.25) प्रत्यक्षेण / अवधारिते (कं. 158.25) इति निश्चिते / विषयस्येति (कं. 158.25) अनुमानगोचरस्य / परः प्राह किमर्थं पुनरित्यादि (कं. 159.1) श्रीधरः प्राह समाने विषये (कं. 159.2) इत्यादि / तदिति (कं. 159.2) ज्ञानम् कर्तृभूते च स्थितिकर्मतापन्नम् / इह केचिट्टीकाकारप्रभृतयः फला[प]हारं बाधं मन्यन्ते फलस्य प्रवृत्तिविषयस्यापहारः / केचिच्च विषयापहारं बाधं मन्यन्ते इति द्विधं पश्यन् परः पृच्छति को बाध इति (कं. 159.5) / श्रीधरः प्राह विषयापहार इति (कं. 159.5) / पर: नन्वित्यादि (कं. 159.5) / धर्मोति (कं. 159.6) शुक्लभास्वररूपशुक्तिकारूपः / [10] (कं. 159.2) / एकत्र धर्मिणि पूर्वज्ञातोपदर्शि [त] (तु) धर्मविरुद्धधर्मोपदर्शनात् प्रत्यक्षवेद्योऽयं बाध इति भावः / बाध्यबाधकभावकल्पनमिति (कं. 159.5) प्रत्यक्षसिद्धत्वादङ्गीकर्तव्यमित्यर्थः / बाधकस्वरूपं पृच्छति को बाध इति (कं. 159.5) / उत्तरं विषयापहार इति (कं. 159.5 ) / नन्विदमुपपत्तिपराहतं विषयापहारस्यैव निर्वक्तुमशक्यत्वात् / तथाहि स किं धम्मिण एवापहारो धर्ममात्रस्यैव वा ? स च सम्बन्धविनाशो वा तदभावबोधनं वा ? नाद्य इत्याह नन्विति (कं. 159.5) / द्वितीये नार्थ इत्याह रजतत्वमिति (कं. 159.6) / सम्बन्धवियोजनस्येति (कं. 159.7) न वा सतः सम्बन्ध इति शेषः / द्वितीयेन द्वितीय इत्याह 1 उष्णत्वं विना-टिप्पण - जे.३। 2 मांनप्रवृत्तिः-जे. 3 / कर्त - टिप्पण - जे. 3 / 5 शक्तिकालक्षणः - टिप्पण - जे. 3 / रजतं तु नास्त्येव -जे.३। 3 उच्यते - टिप्पण - जे. 3 / 4 ज्ञानं 6 रजतत्वं नास्त्येव -कं. 1, कं. 2;