________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् __ न्यायकन्दली भिनत्ति, न व्यवहितम्' इति व्याप्तिग्राहकं प्रमाणम्, अतस्तत्सामर्थ्यात् प्रत्यक्षे संभवत्यपि भवत्यनुमानस्योदय इति / एवं 'चेदत्रापि व्यधिकरणा क्रिया विभागं न करोतीति व्याप्तिग्राहकस्य प्रमाणस्यातिदृढत्वात् प्रत्यक्षस्य चान्यथाप्युपपत्तेः सुस्थितं क्रमानुमानम् / अत एव 'चानुमानेन प्रत्यक्षस्य बाधः / 'इदं हि सविषयम् / निविषयं च प्रत्यक्षम्, आशुभावित्वमात्रेण प्रवृत्तेः / यच्च सविषयं तत्तथात्वेनावस्थितस्य विषयस्य साहाय्यप्राप्त्या 'बलवत्, दुर्बलं च निविषयमसहायत्वात् / व्याप्तिग्राहकेणैव प्रत्यक्षेण हि तद् बाधोदयादनुमानेन प्रत्यक्षस्य बाधः / तथा च दिङमोहादिष्वनुमानमेव बलवदिति मन्यन्ते वृद्धाः भवति वै [टि०] विभागजविभागानन्तरेति संयोग'प्रकरणे हि उत्पन्नमात्रस्य 'चिरोत्पन्नस्य वा “संयोगजः संयोगो 'भवतीत्युक्तम् / उत्पन्नमात्रस्य च तत्रैव दर्शित इदानीं तु "सुखप्रतिपाद्य"त्वाच्चिरोत्पन्नस्य दर्शयति तस्याः स्वाश्रयस्य इति :-क्रिया हि स्वाश्रयादन्यत्र देशान्तरं प्रापयति व्यधिकरणस्या समवायकारणत्वाभावात् / / [पं०] श्रीधरः प्राह एवं चेवित्यादि (कं. 158.18) / व्यधिकरणा क्रिया विभागं न करोतीति (कं. 158.18) हस्तगता क्रिया शरीरविभागं न करोतीत्यर्थः / अन्यथापीति (कं. 158.19) आशुभावित्वेनापि / इदमिति (कं. 158.20) अनुमानम् / सविषयमिति (कं. 158.20) क्रमभावाख्यस्य विषयस्य विद्यमानत्वात् / आशुभावित्वमात्रेणेति (कं. 158.20) अयमर्थन केशोंकवत् / तथात्वेनेति (कं. 158.21) यथास्थितत्वेन / असहायत्वादिति (कं. 158.22) यथावस्थित विषयलक्षणसहायविरहात् / व्याप्तिग्राहकेणैव प्रत्यक्षेण "तद्वाधोदयादनुमाने [न] प्रत्यक्षबाघ इति (कं. 158.22) अत्र तद्वाधोदयादिति भ्रान्तप्रत्यक्षबाधोदयात् / अयं समुदायार्थः अनुमानं बाधितुमुपस्थितं यत्प्रत्यक्ष तत्पूर्वोक्तेन व्याप्तिग्राहकेण प्रत्यक्षेण बाधितम् / व्याप्तिश्चानुमानजीविताम् / अतोऽनुमानेन प्रत्यक्षं बाध्यते / तथा च दिङ्मोहादिष्वनुमानमेव बलवदिति (कं. 158.23) प्रत्यक्षेण पूर्वादिप्रतिभासेऽपि सूर्यादिवारेणान्यथाऽनुमीयमानत्वात्। [कु.] ग्राहकं प्रत्यक्षमपेक्षते तच्च न वह्नावेवेति प्रत्यक्षानुमानयोविरोध इति भावः / किमर्थमिति (कं. 159.1) यत्तु प्रत्यक्षं विभागयोगपद्यज्ञानमानुमानिकेन केन ज्ञानेन बाध्यत इत्युक्तं तत्र बाधो नाम विनाश: संस्कारान्तरेण वा सर्वेषां ज्ञानानां विनाशोऽपि बाध्यत्व (1) व्यवहारात्तदतिरिक्ते च बाधे प्रमाणं नास्तीति भावः / समाने विषय इति 1 चेदत्र-कं. 1, कं. 2 / 2 चानेन-कं. 1, कं. 2; चात्रानेन-जे.१। 3 इदं - अनुमानम् -टिप्पण - जे. 3 / 4 सबलं - कं. 1; कं. 2 / 5 बाधो यदनुमानेन - कं. 1, कं. 2 / तद्-प्रत्यक्षम् - जे. 3 / 6 प्रकरणे उत्पन्नमास्य - अ, ब; 7 विचारोत्पन्नस्य - अ, ब / 8 वा संयोगो - अ, ब, क; 9 भवतीति सूक्तम् - अ, ब; 10 मुख-अ; 11 त्वाविचारोत्पन्नस्य - अ, ब, 12 स्वाश्रयदन्यदेशान्तरं-अ, ब, क; 13 समवायिकारणस्यासमवायिकारणत्वात् - अ, ब, 14 बाधो यदनुमानेन प्रत्यक्षस्य बाधः - क; तद्वाघोदयादनुमामेन पा. 3. पु. /