________________ 378 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम्। न्यायकन्दली अत्राहुरेके-कुड्याविदेशाद्धस्तशरीरविभागयोर्युगपद्भावप्रतीतेस्तयोः कार्यकारणभावाभिधानं प्रत्यक्षविरुद्धमिति / तदसङ्गतम्, हस्तविभागकाले शरीरविभागोत्पत्तिकारणाभावात् / न चासति कारणे कार्योत्पत्तिरस्ति, हस्तक्रिया च न कारणमित्युक्तम् / तस्मात्तयोर्युगपदभिमानो भ्रान्तः। अनुमानगम्यः क्रमभावः, प्रत्यक्षसिद्धं च योगपद्यम्, प्रत्यक्षे च परिपन्थिन्यनुमानस्योत्पत्तिरेव नास्ति, अबाधितविषयत्वाभावात् / कथं तदनुमानविरोधात् प्रत्यक्षस्य भ्रान्सत्वमिति चेत् ? उत्पलपत्रशतव्यतिभेदेऽपि कुतोऽनमानप्रवृत्तिः? प्रत्यक्षविरोधात् / अथ मन्यसे तत्र प्रत्यक्षविरोधादनुमानं नोदेति, यत्रानेन विषयस्य बाधो निश्चितः स्यात् / इह त्वसौ सन्दिग्धः, पत्रशतव्यतिभेदस्याशुभावित्वेनापि निमित्तेन योगपंद्यग्राहकस्य प्रत्यक्षस्य प्रवृत्तेः सम्भवात् / अस्ति च सर्वलोकप्रसिद्धम् 'अतिदृढमव्यवहिता सूचि [टि०] व्यवहारस्य बाधः क्रियते इति मन्यन्ते केचिच्च विषयस्य शुक्तिकादेरारोपितस्य रजतज्ञानेनापहारः क्रियते इत्याह; तत्राह को बाध इति / ननु रजतेति :- ज्ञानान्तरे शुक्तिकाज्ञानरूपे उत्पन्नेऽपि न तदानीं रजतं गतमासीत्, शुक्तिकावस्थायां च रजतत्वं नास्त्येव प्रतिभागोचरः विज्ञाने इति तदपहार्यम्, साक्षाद् इति :- नेयं शुक्तिकेति साक्षादभावप्रति पादनं रजतमिदमिति तु विरोधिप्रतिपादनद्वारेणेति / तस्य विषयापहारेति तस्य 'फलापहारस्य / [पं०] परवाक्यम् अनुमानगम्य (कं. 158.10) इत्यादि। तदनुरोधादिति (कं. 158.11) अनुमानानुसारात् / उत्पलपत्रशतव्यतिभेदेऽपि कुतोऽनुमान[प्रवृत्तिरिति (कं. 158.11) विवादाध्यासिता सूची, क्रमेण भिनत्ति, सूचीत्वात्, सम्प्रतिपन्नसूचीवत् इति क्रमभेदानुमानम् / विभागाजनकत्वानुमानं तु विवादाध्यासितं कर्म, शरीराकाशविभागासमवायिकारणं न भवति व्यधिकरणत्वात्, चैत्रमंत्रविभागाजनकदेवदत्तशरीरवदिति द्रष्टव्यम् / प्रत्यक्षविरोधादिति (कं. 158.12) प्रत्यक्षेण विरोधात् / तत्र प्रत्यक्षविरोधादनुमानं नोदेतीति (कं. 158.12) 'अस्य व्याख्या। अनेनेति (कं. 158.13) प्रत्यक्षेण / विषयस्येति (कं. 158.13) अनमानविषयस्य / इहेति (कं. 158.13) उत्पलपत्रशतव्यतिभेदे / असौ सन्दिग्ध इति (कं. 158.14) अनुमानविषयबाधः सन्दिग्धः, सन्दिग्धे च हेतुवचनम् / भिनत्तीति (कं. 158.16) उत्पलानि कर्मभूतानि / न व्यवहितेति (कं. 158.16) न पत्रान्तरान्तरिता भिनत्तीत्यर्थः / क्रमेणैव भिनत्तीति यावत् / [कु०] बाध एव कुत शयत आह इदं होति (कं. 158.20) स्वविषयसंवादानुगृहीतमित्यर्थः / विषयस्य साहाय्यप्राप्त्येति (कं. 158.21) प्रवृत्तिसामर्थ्यानुमितप्रामाण्यमित्यर्थः / ननु प्रत्यक्षमलेनानुमानेन कथं तस्य बाध इत्यत आह व्याप्तिग्राहकेति (कं. 158.22) / प्रमाणानामुपजीव्यत्वे सति विरोध एव बाधकत्वप्रयोजकः / न च योगपद्यग्राहक क्रमानुमानेनापजीव्यत इति रहस्यमिति दर्शयन्नाह वह्नाविति (कं. 158.24) / इहोष्णत्वनिषेधः साध्यधर्मप्रतियोगि१ तदनुरोधात्-कं. 1, कं. 2, जे. 1, जे. 2 / 2 खादनं - अ, ब; 3 फता - अ; 4 अत्र काक्वाख्या-व /