SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली हस्ते कुतश्चित् कारणात् कर्मोत्पन्नं तस्य हस्तस्यावयवान्तराद्विभागमकुर्वदाकाशादिदेशेभ्यो विभागानारभ्य प्रदेशान्तरैः सह यदा संयोगानारभते तदा ते कारणाकारणविभागाः शरीरकारणस्य हस्तस्याकारणानामाकाशादिदेशानां विभागाः। कर्म यस्यां दिशि कार्यारम्भाभिमुखं कर्मणा यत्रोत्तरसंयोगो जनयितव्यः, तां दिशमपेक्ष्य, कार्याकार्यविभागान् हस्तकार्यस्य शरीरस्याकार्याणामाकाशादिदेशानां विभागानारभन्ते / यतः कुडयादिदेशाद्धस्त न विभागः, ततः शरीरस्यापि विभागो दृश्यते / न चायं शरीरक्रियाकार्यः, तदानीं शरीरस्य निष्क्रियत्वात् / नापि हस्तक्रियाकार्यों भवितुमर्हति, व्यधिकरणस्य कर्मणो विभागहेतुत्वादर्शनात् / अतः कारणाकारणविभागस्तस्य कारणमिति कल्प्यते / माकाशावावित्यादिपदं समस्तविभुद्रग्यावरोधार्थम् / अत एव विभागानिति बहुवचनम्, तद्विभागानां बहुत्वात् / [टि०] विवादाध्यासितं कर्म 'शरीराकाशविभागासमवायिकारणं न भवति व्यधिकरणत्वात् '[चत्रमैत्रशरीरविभागजनकदेवदत्त'शरीरकर्मवदिति / / "एकमेव इति :- वस्तुकर्मतापन्नं 'किञ्चिज्ज्ञानं कर्तृ / अत्र हि केचित् टोकाकृत्प्रभृतयः फलस्य प्रवृत्तिनिवृत्ति [पं०] बहुवचनफलमुत्तरत्र वक्ष्यते / शरीरकारणस्य हस्तस्येति (कं. 157.25) अवयवा हि अवयविमः कारणं स्युः / [रो] रस्येति (कं. 157.27) बहिवादेः। न चायमिति (कं. 158.2) अयं शरीरस्य विभागः / व्यधिकरणस्य कर्मणो विभागहेतुत्वादर्शनादिति (कं. 158.3) क्रिया हि हस्तगता विभागश्च शरीराधिकरणः, अतो हस्तक्रिया शरीरविभागस्य न हेतुरित्यर्थः / कारणाकारणविभाग इति (कं. 158.4) कारणं हस्तः, अकारणमाकाशादयस्तेषां विभागः / तस्येति (कं. 158.4) शरीरविभागस्य / समस्तविभुतव्यावरोधार्थमिति (कं. 158.5) समस्तानामाकाशकालात्मदिशाख्यानां व्यापकद्रव्याणां संग्रहार्थमित्यर्थः / कार्यकारणभावाभिधानमिति (कं. 158.7) कारणकार्यभावाभिधानमित्यर्थः / कारणं हस्तः कार्य शरीरम् / अवयवा हि अवयविनः कारणमिति भावना। हस्तविभागकाले शरीरविभागोत्पत्तिकारणाभावादिति (कं. 158.8) हस्तविभागस्य हि कारणं कर्म शारीरविभागस्य तु न हस्तकर्म किन्तु हस्तविभाग एव / क०] प्रत्यक्षजात्यैवानुमानबाध इति भ्रान्तश्चोदयति - अनुमानगम्य इति (कं. 158.10) / अनन्यथासिद्धत्वेनैव प्रत्यक्षं बाधकमित्यमुपथं ? प्रतिबंधं कारयत्परिहरति उत्पलपत्रेति (कं. 158.12) / प्रत्यक्षस्य चान्यथेति (कं. 158.19) भाशुभावित्वेनेत्यर्थः / अन्यथासिद्धिरनुमानदूषणं कथं प्रत्यक्षस्य स्यादित्यत आह अत एवेति(कं. 158.19) / 1 कर्म च - कं. 1, कं. 2 / 2 हस्तस्य - कं. 1, कं. 2 / 3 शरीरं- रा. म; 4 समवाय - अ, ब, क; 5 [ ] एतचिह्नान्तर्गत: पाठोऽधिक: अपुस्तके। 6 शरीरवद् - भ; 7 प्रतीकमिदं भ्रष्टं ड पुस्तके / 8 कि विज्ञानं-अ, ब, क / 48
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy