________________ 376 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [146) कारणाकारणविभागादपि कथम् ? यदा हस्ते कर्मोत्पन्नमवयवान्तराद्विभागमकुर्वदाकाशादिदेशेभ्यो विभागानारभ्य 'प्रदेशान्तरे संयोगानारभते [तदा ते कारणाकारणविभागाः / कर्म यां दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागानारभन्ते] तदनन्तरं कारणाकारणसंयोगाच्च कार्याकार्यसंयोगानिति / न्यायकन्दली पूर्वसंयोगनिवृत्त्यनन्तरक्षणः प्रदेशान्तरसंयोगारम्भकालः, पूर्वदेशावस्थितस्य द्रव्यस्य देशान्तरप्राप्तेरसम्भवात् / तस्य च संयोगारम्भकालस्यात्ययोऽतिक्रमो न भूतः, तदानीं हि कालोऽयमतिकान्तः स्याद्यदि कर्मणा प्रदेशान्तरसंयोगः कृतो 'भवेन्न त्वेवम् ; तस्मादकृतसंयोगस्य कर्मणो यः संयोगारम्भकालस्तस्यात्ययाभावात् कर्म संयोगं करोति न विभागम् / 'तेन चेदयं न कृतोऽन्यस्यासम्भवादसमवायिकारणेन विना च वस्तुनोऽनुत्पादादेकार्थसमवेतो विभागोस्य कारणमित्यवतिष्ठते / इतिशब्दः प्रक्रमसमाप्तौ / [146) एवं कारणविभागपूर्वकं विभागं प्रतीत्य कारणाकारणविभागपूर्वकं विभागं प्रत्येतुमिच्छन् पृच्छति-कारणाकारणविभागादपि कथमिति / उत्तरमाह-यदेत्यादिना / [टि०] [146] हस्तस्या'वयवान्तराद् इति :- "विभागं द्रव्यारम्भकसंयोगविरोधिनम् / 'उत्पलपत्रशतेति बिवादाभ्यासिता सूचीक्रमेण भिनत्ति 'सूचीत्वात् सम्प्रतिपन्नसूचीवदिति क्रमभेदानुमानम् / विभागाजनकत्वानुमानं तु [पं०] कक्षीक्रियते तहि कर्मणः सकाशादुत्तरसंयोगोत्पत्तिः सुतरां भविष्यति क्षणद्वयव्यवधानादिति परप्रश्नभावार्थः / पूर्वदेशावस्थितस्य द्रव्यस्य देशान्तरप्राप्तेरसम्भवादिति (कं. 157.14) अतः पूर्वसंयोगनिवृत्तिरित्यर्थः / न चैवमिति (कं. 157.17) किन्वारम्भमात्रमेवास्तीत्यर्थः / अकृतसंयोगस्येति (कं. 157.17) अकृतोत्तरसंयोगस्य / संयोगमिति (कं. 157.18) उत्तरसंयोगम् / तेनेति (कं. 157.18) कर्मणा / * अयमिति (कं. 157.18) द्वितीयविभागः / अन्यस्येति (कं. 157.18) प्रथमविभागव्यतिरिक्तस्य / एकार्थसमवेत इति (कं. 157.19) द्वितन्तुकपटसमवेतः / अस्येति (कं. 157 20) आकाशविभागस्य / [1461 एवं कारणविभागपूर्वक विभागं प्रतीत्येति (कं. 157.20) अस्मात्पूरः प्रतिपादितमिति अध्याहार्यम् / अवयवान्तराद्विभागमिति (कं. 157.23) द्रव्यारम्भ कसंयोगविरोधिनम | विभागानिति (कं. 157.24) [कु०] [146] कार्याकार्यविभागोऽपि कुतो न कर्मज इत्यत आह न चायमिति (कं. 158.2) / 1 प्रदेशान्तरसंयोगान् -दे। 2 [ ] एतच्चिह्नान्तर्गतः पाठः 'द' पुस्तके नास्ति / 3 भवेन्न चैवम -जे. 1, जे. 2, जे. 3 / 4 तेन-कर्मणा, चेदयं-न कृतो--द्वितीय विभाग:-अन्यस्य-पूर्वविभागव्यतिरिक्तस्य-टिप्पणजे. 3 / 5 अतोऽन्यस्थासम्भवाद्-जे. 2 / 6 वयेवोन्तराद्-अ,ब; 7 विभागद्रव्यारम्भकसंयोगविरोधे-अ, ब; 8 उपलभ्य-अ, ब; 9 सूचीत्वात् इत्येतदनन्तरं [ ] एतच्चिह्नान्तर्गतः पाठोऽधिक: अपुस्तके 10 नत्वेक-कं /