________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 375 प्रशस्तपादभाष्यम् न तु तववयवकर्माकाशादिदेशाद्विभागं करोति, तदारम्भककालातीतत्वात् / 'प्रदेशान्तरसंयोगं तु 'करोत्येव, अकृतसंयोगस्य कर्मणः कालात्ययाभावादिति / न्यायकन्दली प्रतिबन्धकस्यानिवृत्तेरुत्तरसंयोगानुत्पत्तौ सानुपभोग्या निष्प्रयोजना स्यात् / न चैतद्युक्तम् / तस्मात् सक्रियस्यैव विभाग 'इति तात्पर्यम् / अवयवक्रिययोः अवयवविभागसमकालमाकाशादिविभागकर्तृत्वं नोपपद्यत इति / ___ मा कार्षीदियं युगपद्विभागद्वयम्, क्रमकरणे तु को विरोधो येन विभागजनने दृष्टसामर्थ्यामिमां परित्यज्यादृष्टसामर्थ्यस्य विभागस्य विभागहेतुत्वमाश्रीयते ? इत्यत्राह -न तु तदवयवकर्माकाशादिदेशाद् विभागं करोति, तदारम्भककालातीतत्वात् / एवं हि कर्मणः स्वभावो यत् तदसमवायिकारणतया विभागमारभमाणं स्वोत्पत्त्यनन्तरक्षण एवारभते न क्षणान्तरे, स च तस्य विभागारम्भकालो द्वितीयभागोत्पत्तिकालेऽतीत इति न तस्मादस्योत्पत्तिः। __ नन्वेवमुत्तरसंयोगमपि कुतः करोति ? अनेकक्षणव्यवधानात्, अत आह - प्रदेशान्तरसंयोगं करोतीति / यथा कर्मणः स्वोत्पादानन्तरक्षणो विभागारम्भकालस्तथा [पं] इयमिति (कं. 157.6) अवयवक्रिया। क्रमकरणे तु को विरोध इति (कं. 157.6) सैव क्रिया विभागद्वयमपि क्रमेण करोत्वित्यर्थः / इमामिति (कं. 157.7) अवयवक्रियाम् / विभागहेतुत्वमिति (कं. 157.7) द्वितीयविभागहेतुत्वम् / न तु तदवयवकर्माकाशादिदेशाद्विभागं करोतीति (कं. 157.8) किन्तु विभाग एव करोतीति तात्पर्यार्थः / तदिति (कं. 157.8) कर्म / स्वोत्पत्त्यनन्तरक्षण एवेति (कं. 157.10) स्वोत्पत्तिद्वितीयक्षणे / तस्येति (कं. 157.10) कर्मणः। द्वितीयविभागोत्पत्तिकालोऽनीत इति (कं. 157.11) विभागारम्भकालोऽतीतः कर्मत्वस्य वेत्यर्थः / तस्मादिति (कं. 157.11) कर्मण / अस्येति (कं. 157.11) द्वितीयविभागस्य / अनेकक्षणव्यवधानादिति (कं. 157 12) क्षणद्वयव्यवस्थानात् प्रथमक्षणे हि कर्म, द्वितीयक्षणे कर्मतो विभागात पूर्वसंयोगविनाशो द्वितीय विभाग इति यावत् / चतुर्थक्षणे उत्तरसंयोगोत्पत्तिः कर्मतः स्यादिति हि वः कल्पना ततो यदि कर्मणः सकाशाद्वितीय विभागम्याप्युत्पत्तिरेकक्षणव्यवधानात्त कक्षीक्रियते किन्तु विभागादेव द्वितीयविभागोत्पत्तिः [कु०] अत्रैवार्थ इति (कं. 156.27) उत्तरसंयोगपर्यन्तमवतिष्ठमानं तत्प्रतिबन्धकसंयोग विनाशकविभागोत्पत्तेः पूर्वभावितया कर्म निमित्तकारणमेषितव्यमिति भावः। एवं होति (कं. 157.9.) अत्र प्रयोगः विमतो विभागो न - कर्मासमवायिकारणकस्तदुत्पत्त्यनन्तरमनुत्पद्यमानतो सति विभागत्वाद, अत्र यदेब न तदेवं य[था प्रथमो विभागः / // इति प्रक्रमस्य प्रकान्तस्य समाप्तावित्यर्थः / / 1 तदारम्भकालातीतत्वात् - कं. 1, कं. 2; कि। 2 उत्तरसंयागं - व्यो (503) / 3 करोति - जे. दे। 4 इत्यर्थ:- कं. 1, कं. 2 / 5 एष हि-कं /