________________ 374 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली संयोगविनाशे किं स्यादत आह-तस्मिन्निति / संयोगेऽसमवायिकारणे तस्मिन्नष्टे कारणस्याभावात् कार्याभाव इति न्यायादवयविनो विनाशः / अवयविद्रव्ये नष्टे कि स्यादत आह-तदेति / द्रव्ये विनष्टे तत्कारणयोरवयवयोर्वर्तमानो विभागः कार्यविनाशेन विशिष्टं कालं स्वतन्त्रं वा अवयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशादिदेशाद विभागमारभते / यावत् कार्यद्रव्यं न विनश्यति, तावदवयवस्य स्वातन्त्र्यम् / पृथग्देश'गमनयोग्यता नास्तीत्य वयविदेशाद तद विभागो न घटते, तदर्थमक्त कार्यविनाशविशिष्टं कालं स्वतन्त्रं 'वावयवमपेक्ष्येति / कारणयोर्वर्तमानो विभागः सक्रियस्यैव विभाग करोतीत्यत्र को हेतुरिति चेत् ? अत आह-न, निष्क्रियस्य कारणाभावादिति / विभागाद विभागोत्पत्तौ कर्मापि निमित्तकारणम्, 'तस्याभावान्न निष्क्रियत्य विभागः / अत्रैवार्थे युक्त्यन्तरमाह-उत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्ग इति / क्रिया हि प्राधान्येन उत्तरसंयोगार्थमुपजाता, देशान्तरप्राप्तेन द्रव्येण कस्यचित् पुरुषार्थस्य सम्पादनात् / तत्र यदि सक्रियस्यावयवस्य कार्यसंयुक्तादाका'शादिदेशाद्विभागो न भवति, तदा पूर्वसंयोगस्य [पं०] द्रव्ये इति (कं. 156.20) द्वितन्तुकपटे / कार्यविनाशेनेति (कं. 156.20) द्वितन्तुकविनाशेन / स्वतन्त्रमिति (कं. 156 21) पश्चास्थितम् सक्रियस्येति (कं. 156.21) घटत्वतः / कार्यसंयुक्तादिति (कं. 156.21) द्वितन्तुकसंयुक्तात् / अवविदेशादिति (कं. 156.23 ) द्वितन्तुकदेशात् / प्राधान्येनेति (कं. 156.28) मुख्या वृत्त्या। सेति (कं. 157 3) क्रिया। परः प्राह अवयव क्रियाया इत्यादि (कं. 157.4) अव[यव] विभागसमकालमिति (कं. 157.5) द्रव्यारम्भकावयवविभागसमकालमित्यर्थः / विभागोत्पादकत्वं द्रव्यारम्भकावयव विभागसमकालमित्यर्थः / विभागोत्पादकत्वं द्रव्यारम्भकसंयोगविरोधिविभागानुत्पादत्वे इति व्यापके तद्वयाप्तमिति द्रव्यारम्भकसंयोगविरोधि / [कु०] अवयवान्तराच्वेति (कं. 156.14) द्रव्यारम्भ कसंयोगप्रतिद्वन्द्वितामेव / नाकाशादिदेशादिति (कं. 156.15) देशसंयोगप्रतिद्वन्द्विनमिति व्याख्येयं, तथैव व्याप्तिदर्शनात् / ननु कारणविभाग एव कारणाकारणविभागमारभता(रभता) मारब्धकर्म [णा] द्रव्यविनाशः किमर्थमपेक्ष्यत इत्यत आह [या] वदिति (कं. 156.22) / 'पृथ[ग्गमनयोग्यता नास्तीति ( कं. 156.23 ) अवयवी हि स्वदेशेऽवयवं धारयति देशान्तरगति प्रतिबध्नाति [इति उक्त "धारणाकर्षणोपपत्तेरिति / तस्माद द्रव्यविनाशोऽवश्यमपेक्षणीय इति भावः / फलाभेदेऽपि विकल्पो विपक्षाभेदो न द्रष्टव्यः। विभागा[द्] विभागोत्पत्ताविति (कं. 156.26) कारणविभागादिति द्रष्टव्यं चतुर्थादिषु कर्मणो व्यभिचारात्। 1 कारणाभावात् - जे. 2 / 2 गमने - कं. 1, कं. 2; पृथग्गमन - जे. 2 / 3 अवयवदेशाद विभागो-कं. 1, कं. 2, तद = अवयव-टिप्पण- जे. 3 / 4 वावयवमपेक्षते-कं. 1, कं. 2 / 5 तस्य = कर्मण:-टिप्पण-जे.१। 6 आशाशदेशाद् -जे. 2 / 7 अवयव - कं। 8 क्रिययोः - कं / 9 पृथग्देशमने-कं। 10 पाठोऽयं कन्दल्यां नास्ति।