________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् तस्मिन् विनष्ट कारणाभावात् कार्याभाव इत्यवयविविनाशः, 'तदा कारणयोवर्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशादिदेशाद्विभागमारभते न निष्क्रियस्य, कारणाभावादुत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्गः। न्यायकन्दली विरोधिविभागानुत्पादकत्वे निवर्तमाने तयाप्तमाकाशविभागकर्तृत्वमपि निवर्तते / 'यथा वह्निव्यावृत्तौ धूमव्यावृत्तिः। आकाशविभागकर्तृत्वस्य द्रव्यारम्भकसंयोगविरोधिविभागानारम्भकत्वस्य च सहभावमात्रं न व्याप्तिरिति चेत् ? न, व्यभिचारानुपलब्धेः / ययोः क्वचिद्वयभिचारो दृश्यते तयोः सहभावमात्रम्, यथा वजे पार्थिवत्वलोहलेख्यत्वयोः सत्यपि पार्थिवत्वे काष्ठादिषु लोहलेख्यत्वात्। न तु व्योमविभागकर्तृत्वस्य विशिष्ट विभागानुत्पादकत्वस्य च व्यभिचारो दश्यते / अदृश्यमानोऽपि 'कदाचिदयं भविष्यतीत्याशयेत यद्यनयोः शिष्याचार्ययोरिवोपाधिकृतः सहभावः प्रतीयेत / न चैवमप्यस्ति, उपाधीनामनुपलम्भात् / यद्यप्रतीतव्यभिचारो निरुपाधिकः सहभावो न व्याप्तिहेतुरित्यग्निधूमयोरपि व्याप्तिर्न स्यादित्युच्छिन्नेदानीं जगत्यनुमानवार्ता / यद्यवयवकर्मणावयवान्तराद् विभागः क्रियते नाकाशादिदेशात्, ततः किं सिद्धम् ? तत्राह-विभागाच्च द्रव्यारम्भकसंयोगविनाशः / आकाशविभागकर्तृत्वे विशिष्ट विभागानुत्पादाद् द्रव्यारम्भकसंयोगविनाशो न भवेदित्यर्थः / पं०] विभागारम्भकत्वेनेति (कं. 156.2) व्यापकेन / यत्रेदमिति (कं. 156.4) इदं द्रव्यारम्भकसंयोगविरोधिविभागानुत्पादकत्वव्याप्तम् / यथा वह्निव्यावृत्तौ धूमव्यावृत्तिरिति (कं. 156.5) वह्निापको धूमस्तु व्याप्यः / आकाशविभागकर्तृत्वस्येति (कं. 156.6) कर्मसक्तस्य / व्याप्तिरिति (कं. 156.7) अविनाभावः / 'विशिष्टभावानुत्पादकत्वस्येति (कं. 156.10) द्रव्यारंभ कसंयोगविरोधित्वमिह विशिष्टत्वम् / अयमिति (कं. 156.11) व्यभिचारः / उपाधिकृत इति (कं. 156.11-12) अध्ययनादिकारणकृतः / विशिष्ट विभागानुत्पादादिति (कं. 156.16) द्रव्यारम्भकसंयोगविरोधिविभागानुत्पादादित्यर्थः / कु.] ननु द्रव्यारम्भकसंयोगविरोधिविभागानारम्भकत्वस्याकाशविभागकर्तृत्वं प्रति व्यापक [त्वं] नास्तीति शङ्कते * आकाशेति (कं. 156.6) / इह व्याप्त्यभावो व्यभिचारस्य निश्चयाद्वा तच्छड्या वा? नाद्य इत्याह नेति (कं. 156.7) / द्वितीय इत्याह / दृश्यमानोऽपीति (कं 156.11) / न चैवं संयोगेऽपि द्रष्टव्यारम्भकत्वानारम्भकत्वरूपे जातिभेद'दर्शनात्तत् कारणेऽपि जातिभेदः कल्पनीय इति वाच्यं, तस्य स्वाश्रयविशेषणे नव सामर्थ्यव्यवस्थितेः / तयाहि समवायिकारणे उत्पन्नं कर्म द्रव्यारम्भकसंयोगमारभते, अन्यं तु न[त]थेति / / 1 यदा-कं. 2 / 2 यथा च-जे. 3 / 3 द्रव्यारम्भकसंयोगविरोधिः-टिप्पण जे. 3 / 4 कदाचिद- जे. 2 / 5 विशिष्टविभागानुत्पादकत्वस्य - कं। 6 दर्शनम् - M.S.; 'च' कं पुस्तके नास्ति /