________________ 372 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [145] तत्र कारणविभागात् तावत् कार्याविष्ट कारणे कर्मोत्पन्नं यदा 'तस्यावयवान्तराद्विभागं करोति न तदाकाशादि देशात, यदा त्वाकाशादिदेशाद्विभागं करोति न तदावयवान्तरादिति स्थितिः / अतोऽवयवकर्मावयवान्तरादेव विभागमारभते विभागाच्च द्रव्यारम्भकसंयोगविनाशः।। न्यायकन्दली [145] 'कारणविभागाच्च विभागः कथ्यते-कार्याविष्ट इत्यादिना / कार्येणाविष्टे व्याप्ते अवरुद्ध कारणे कर्मोत्पन्नं यदा तस्यावयवस्यावयवान्तराद् द्रव्यारम्भकसंयोगविनाशक विभागं करोति, न तदा द्रव्यावरुद्धादाकाशादिदेशाद्विभागं करोति / यदा चाकाशादिदेशात् न तदावयवान्तरादिति 'स्थितिनियमः / अतोऽवयवकर्मावयवान्तरादेव विभागमारभते / यत आकाशविभागकारणं कर्म अवयवान्तराद्विभागं न करोतीति नियमः, अतोऽवयवान्तरविभागारम्भकं कर्म अवयवान्तरादेव विभागं करोति, नाकाशादिदेशात् / अयमभिसन्धिः-आकाशविभागकर्तृत्वं कर्मणो द्रव्यारम्भकसंयोगविरोधिविभागानारम्भकत्वेन व्याप्तम्, द्रव्यारम्भकसंयोगविरोधिविभागानारम्भकत्वविरुद्धं च द्रव्यारम्भकसंयोगविरोधिविभागोत्पादकत्वम् / अतो यत्रेदमुपलभ्यते तत्र द्रव्यारम्भकसंयोग [टि०] [145] कापि निमित्तकारणम् इति :- ननु तहि कर्मपदार्थोक्तं कर्मणोऽसमवायित्वमेवेति विरुद्धम् ? नवम्, अन्य कार्यापेक्षया तत्प्रतिपादनात् / विभागजे तु विभागे पूर्वविभाग एवासमवायिकारणम्, कर्म तु निमित्त"कारणमिति / "तेन चेदयम इति :- अयं विभागस्तेन कर्मणा / [पं०] [145] कार्येणेति (कं. 155.20) वंशेन द्वितन्तुकपटेन वा / कारण इति (कं. 155 22) वंशमये तन्तौ वा। कर्मेति (कं. 155.22) कर्तृभूते / आकाशविभागकर्तृत्वमिति (कं. 156.1) विकसति कमले विरलीभवत्सु दलेषु / द्रव्यारम्भकसंयोगविरोधि [कु०] [145] न तदेति (कं. 155.23) कार्यविरोधेन कारणविरोधानुमानादित्यर्थः / ननु कस्यचिदेव कण उभयसूपविभागजननं प्रति सामर्थ्यं किमति न कल्प्यत इत्यत आह - अयमभिसन्धिरिति (कं. 156.1) / ब्याप्तिबलात सिद्धयन्तमथं परित्यज्यान्यथाकल्पनोऽतिप्रसङ्ग इत्यर्थः। 1 'तत्र' इति जे. व्यो (491) पुस्तकयो स्ति। 2 कार्याविशिष्टे -दे। 3 'तस्य' इति जे. व्यो (499) दे पुस्तकेषु नास्ति / 4 देशाद्विभागं करोति-दे। 5 ततो विभागाच्च-कं. 1, कं. 2, कि.। 6 कारणविभागाश्च - कं. 1, कं.२। 7 स्थितिनियम:- कं. 1, कं. 2 / 8 द्रव्यारम्भकसंयोगविरोधिविभागोत्पादकत्वं-टिप्पण -जे. 3 / 9 कार्योपेक्षया प्रतिपादनात् - अ; कार्यापेक्षपात् प्रतिपादनात् - ब; 10 करण - अ, ब; . 11 पुस्तके प्रतीकमिदं भ्रष्टम् /