________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपैतम् 371 न्यायकन्दली वाक्यार्थः / किं प्राप्तेः पूर्वावस्थानमात्रम् ? किं वा विभागं प्रति हेतुत्वमप्यस्ति ? अवस्थितिमात्रमिति बमहे, संयोगस्य विभागहेतुत्वेऽवयवसंयोगानन्तरमेव तद्विभागस्योत्पत्तौ द्रव्यानुत्पत्तिप्रसङ्गात् / कर्मसहकारी संयोगः कारणमिति चेत् ? अन्वयव्यतिरेकावधृतसामर्थ्य कर्मैव कारणमस्तु न संयोगः, तस्मिन् सत्यप्यभावात् / प्रध्वंसोत्पत्ताविव भावस्य / विभागोत्पत्तौ संयोगस्य पूर्वकालतानियमः, विभागस्य तद्विरोधिस्वभावत्वात् / स च त्रिविध इति भेदकथनम् / अत्रापि चशब्दोऽवधारणे, त्रिविध एव / अन्यतरकर्मजो उभयकर्मजो विभागजश्च विभाग इति / तत्र तेषु मध्येऽन्यतरकर्मजोभयकर्मजो संयोगवत / यथा क्रियावता निष्क्रियस्य संयोगोऽन्यतरकर्मजस्तथा विभागोऽपि / यथोभयकर्मजः संयोगो मल्लयोर्मेषयोर्वा तथा विभागोऽपि / विभागजस्तु द्विविध इति / तुशब्देनास्य पूर्वाभ्यां विशेषकथनम् / कारणयोवि: भागादेको विभागो भवति / अपरस्तु कारणाकारणयोविभागादिति द्वैविध्यम् / [पं०]जायते इति द्वितीयपक्षमिति हृदयम् / संयोगस्य विभागं प्रति हेतुत्वं प्रयुक्तं व्योमशिवेन तद्रूषयति संयो (गस्य)विभागहेतुत्वे (कं. 155.11) इत्यादिना / अवयवसंयोगानन्तरमेवेति (कं. 155.11) द्रव्यारम्भकाऽवयवसंयोगानन्तरमेवेत्यर्थः / तस्मिन्निति (कं. 155.13) संयोगे प्रध्वंसोत्पत्तादिवेत्यादि (कं. 155.13) यथा प्रध्वंसोत्पत्तौ भावस्य पूर्वकालता नियमोऽस्ति न हेतुत्वं तथा संयोगस्य विभागोत्पत्तौ पूर्वकालतानियमोऽस्ति न हेतुत्वमिति वाक्यार्थः / [कु०] नन्वप्राप्तिः प्राप्त्यभावः, तस्य कथं गुणत्वमित्यत आह अ[ध]म इति (कं. 155.6) / यथेति (कं. 155.6) / विभागं प्रति हेतुत्वमपीति (कं. 155.9) असमवायिकारणत्वमित्यर्थः / अवस्थितिमात्रमेवेति (कं. 155.9) निमित्तत्वमात्रमित्यर्थः / अवस्थितिमात्रमेवेति (कं. 155.9) निमित्तत्वमात्रमित्यर्थः / गुणकर्मस्वारब्धव्येषु सापेक्ष इति वचनात कर्मसहकारिणोऽप्यसमवायित्वमविरुद्धमिति शङ्कत कर्मसहकारीति (कं. 155.12) / अन्वयव्यतिरेकेति (कं. 155.12) अपेक्षणीयस्यासमवायिकारणत्वे सम्भवति तत् सहकृतस्यासमवायित्वकल्पनायां कल्पनागौरवं स्यादित्यर्थः / एवमसमवायित्वं निषिध्य निमित्त (वि) मात्रेण पूर्वकालभावित्वमिति दृष्टान्तेनोपपादयति प्रध्वंसोत्पत्ताविति (कं. 155.13) / 'तद्विरोधस्वभावत्वाद् (कं. 155.14) इति अनेन संयोगस्य विभागोत्पत्तौ निमित्तत्वसिद्धये व्यतिरेकव्यभिचाराभावो दर्शितः / १.विरोधि-कं।