________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली 'गुणान्तरकल्पना / किञ्च संयोगाभावेऽसंयुक्ताविमाविति, प्रत्ययः स्यान्न विभक्ताविति, अभावस्य विधिमुखेन ग्रहणाभावात् / भाक्तः प्रत्ययोऽयमिति चेत् ? तर्हि विभागस्याप्रत्याख्यानम्, निष्प्रधानस्य भाक्तस्याभावात् / तस्य कार्य दर्शयति-शब्दविभागहेतुश्चेति / न केवलं विभक्तप्रत्ययनिमित्तं शब्दविभागहे'तुश्चेति चार्थः / वंशदले पाटयमाने योऽयमाद्यः शब्दः, स तावद् 'गुणान्तरनिमित्तः, शब्दत्वात्, भेरीदण्डसंयोगजशब्दवत् / न चायं संयोगजः, तस्याभावात् / तस्माद्वंशदलविभागज एवायम्, तद्भावभावित्वात् / विभागस्य विभागहेतुत्वं चानन्तरं वक्ष्यामः। प्राप्तिपूविकाऽप्राप्तिरिति तस्य लक्षणकथनम् / अधर्म इति नञ् यथा धर्मविरोधिनि गुणान्तरे न तु धर्माभावे, तथा अप्राप्तिरिति नञ् प्राप्तिविरोधिनि गणान्तरे, न तु प्राप्तेरभावे प्राप्तौ पूर्वस्थितायां याऽप्राप्तिः, प्राप्तिविरोधी गुणविशेषः, स विभाग इति [पं०] शब्दबुद्धयादीनाम् / गुणान्तरकल्पनेति (कं. 154.20 ) विभागस्य गुणविशेषकल्पना। भाक्तः प्रत्ययोऽयमिति (कं. 155.1) अयं विधिमुखेन विभक्तप्रत्यय औपचारिक: संयोगाभावस्यैव विधितया उपचरितत्वादिति भावः / भाक्तः प्रत्ययोऽयमिति चेदित्यस्मात्पुरस्तीत्यध्याहार्यम। निष्प्रधानस्य भाक्तस्याभावादिति (कं. 155.1) मुख्यमर्थं विना , औपचारिकोऽर्थो न भवतीत्यर्थः / (स) तु' गुणान्तरनिमित्त इति (कं. 155.4) विभागा(ग)निमित्तः / तस्याभावादिति (कं. 155.5) संयोगस्याभावात् / प्राप्तिपूविकेत्युक्तं तच्चर्चयति पर: कि प्राप्तेरित्यादिना (कं. 155.9) / सूरेरुत्तरम् अवस्थितिमात्रमिति (कं. 155.10) बमहे इति / विभागात्पूर्व प्राप्ति रस्तीति प्रथमपक्षं कक्षीकुर्मो न पुनः प्राप्तः सकाशाद्विभागो [कु०] हस्ततरोसंयोगविनाशे स्वकारणविनाशः सम्भवति अङगुलिं कर्म च व्यधिकरणं तस्मादगुलिकर्मणा जनितेन हस्ततरुसंयोगो समानाधिकाराणि हस्ततरुसंयोगो विनाशयितव्यः / न चालिसंयोगविनाशे न नाश्यते कर्मजं हस्ततरुसंयोगं प्रति तस्याकारणत्वादिति / . तस्य कार्यमिति (कं. 155.2) लिङ्गतयेति शेषः / अत एवाह न केवलमिति (कं. 155.2) / वक्ष्याम इति (कं. 155.6) वक्ष्यतीत्यर्थः / 3 हेतुश्च - जे. 1, जे. 2, जे. 3 / 1 विभागगुण (कल्पना)-टिप्पण - जे. 3 / 2 ऽसंयुक्ताविति - जे. 2 / 4 शब्दव्यतिरिक्त-टिप्पण जे. 3 / 5 तावद् - कं., गुणान्तरमिति-ब /