________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 369 369 प्रशस्तपादभाष्यम् [144] विभागो विभक्तप्रत्ययनिमित्तम् / शब्दविभागहेतुश्च / प्राप्तिपूविकाऽप्राप्तिविभागः। स च 'त्रिविधः-अन्यतरकर्मजः, उभयकर्मजः, विभागजश्च विभाग इति / तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत् / विभागजस्तु द्विविधः-कारणविभागात्, कारणाकारणविभागाच्च / __न्यायकन्दली [144] संयोगपूर्वकत्वाद्विभागस्य तदनन्तरं निरूपणार्थमाह - विभागो विभक्तप्रत्ययनिमित्तमिति / अत्रापि व्याख्यानं पूर्ववत् / संयोगाभावे 'विभक्तप्रत्यय इति चेत् ? असति विभागे संयोगाभावस्य कस्मादुत्पादः? 'कर्मणा क्रियत इति चेत् ? न, कर्मणो गुणविनाशे सामर्थ्यादर्शनात् / 'दष्टं च गुणविनाशे गुणानां हेतुत्वम्, तेनात्रापि : [टि०] ( // अथ विभागनिरूपणम् // ) [144] विभक्तप्रत्ययनिमित्तम इति :-आलोकादिव्यवच्छेदार्थमत्राप्यर्थविशेषणं सदिति ज्ञेयम् / दृष्टं च गुणेति शब्दबुद्धयादीनाम् / अवयवसंयोगानन्तरम् इति :- आरम्भकसंयोगानन्तरमित्यर्थः / "स्थितिनियम इति :- अन्यथा विकसत्क'मलकुडमलादौ कमलपत्रद्वय संयोगनाशहेतोविभागस्य कमलपत्रारम्भकसंयोगनाशकत्वमपि स्यात् / [पं०] [144] / / अथ विभागविवरणं प्रस्तूयते / / तदनन्तरं निरूपणार्थमाहेति (कं. 154.16) संयोगादनन्तरं विभागस्य निरूपणार्थमाहेत्यर्थः / अत्रापि व्याख्यानं पूर्ववदिति (कं. 154.17) यथा संयोग: संयुक्तप्रत्ययनिमित्तमित्यत्र अस्ति तावदिदमनेन संयुक्तमिति प्रत्ययो लौकिको न चास्य रूपादयो निमित्तं संयुक्तप्रत्ययविलक्षणत्वात् , अतो यदस्य निमित्तं स संयोग इत्येव व्याख्या कृता; तथाऽत्रापि कार्या / तद्यथा अस्ति तावदिदमनेन विभक्तमिति प्रत्ययो लौकिको न चास्य रूपादयो निमित्तं विभक्तप्रत्ययविलक्षणत्वात्, अतो यदस्य निमित्तं स विभाग इति वाक्यार्थः। दृष्टं च गुणविनाशे गुणानां हेतुत्वमिति (कं. 153.19) यथा कु०] [144] 'तत्सामर्थ्यदर्शनादिति (कं. 154.18) अयं भावः इह त्वन्वयव्यतिरेकाम्यां संयोगविनाशस्य कर्म कारणमेषितव्यं तौ च कारणकारणातयाप्युपपद्यमानौ न नियतं कर्मणः संयोगविनाशकारणत्वं गमयितुमर्हतः / किञ्च कारणविनाशो वा समानाधिकरणो विरोधिधर्मो वा विनाशकारणमेषितव्यम् / इतरथाऽतिप्रसङ्गा। न च 1 त्रिविध एव -जे. व्यो. (498) / 2 विभागव्यवहार-जे. 2, जे. 3 / 3 कर्मणा क्रियते - कं. 1, कं. 2 / 4 यथाऽग्निसंयोगस्य पाकजरूपादिविनाशकत्वमिति-टिप्पण जे. 3 / 5 स्थितिनियम-मु. जे. 1, ३-स्थितिनियमः; 6 कमलादौ - अ; 7 संयोगानाश- अ, ब, 8 सामर्थ्या-कं / 47